SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२० अनुयोगद्वार - चूलिकासूत्रं 'उक्कोसेणं असंखेज्जं कालं 'ति तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसङ्ख्येयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्ख्येयोऽन्तरकालः प्राप्यते, न पुनर्द्रव्यानुपूर्व्यामिवानन्ततो, यतो द्रव्यानुपूर्व्यं विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ताः प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्ताऽनन्तः कालः, अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्ख्येयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्ख्येवकालैव, ततश्चासङ्ख्येय क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनान्यसंयुक्तेन वाऽसङ्ख्येयकालात्तेष्वेव नभः प्रदेशेष्वागत्यावगाहनीयं, न च वक्तव्यमसङ्ख्येयेऽपि क्षेत्रे पौनःपुन्येन तत्रैव परिभ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ?, यत इहासङ्ख्येयक्षेत्रेऽसङ्ख्येयकालमेवान्यत्र तेन पर्यटितव्यं, तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयं वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम् । अन्ये तु व्याचक्षते यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतं तस्य क्षेत्रस्य स्वभावादेवासङ्ख्येयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसङ्ख्यादिधर्मैः सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्ख्येय एवान्तरकाल इति, तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृत्तेरिति । 'नानादव्वाई'इत्यादि, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्ख्येयानां तेषां सर्वदैवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमाननुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः, शेषा तु व्याख्याद्वय भावना सर्वाऽपि तथैवेति । उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारमुच्यते मू. ( ११६ वर्तते ) नेगमववहाराणं आनुपुव्वीदव्वाइं सेसदव्वाणं कइभागे होज्जा ?, तिन्निवि जहा दव्वानुपुव्वीए ॥ - वृ. तत्र यथा द्रव्यानुपूर्व्यं तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्यो ऽसङ्घयेयैर्भागैरधिकानि, शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्त इति । अत्राहननु त्र्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्व्य एकैकप्रदेशावगाढान्यनानुपूर्व्यो द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्त्यतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि असत्कल्पनया किल लोके त्रिंशत् प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव अवक्तव्यकानि तु पञ्चदश आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्यः स्तोकान्येय प्राप्नुवन्ति, कथमसङ्घयेयगुणानि स्युरिति ?, अत्रोच्यते, एकस्मिन्नानुपूर्वीद्रव्ये ये नभः प्रदेशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयज्येरँस्तदा स्यादेवं, तच्च नास्ति, यत एकस्मिन्नपि प्रदेशत्रयनिष्पन्ने आनुपूर्वीद्रव्ये ये त्रयः प्रदेशास्त एवान्यान्यरूपतयाऽवगाढेनाधेयद्रव्येणाक्रान्ताः सन्तः प्रत्येकमनेकेषु त्रिकसंयोगेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्, तद्भेदे चाधारभेदादिति भावः, एवमान्यान्याचतुष्प्रदेशावगाढाद्यादेयेनाध्यासितत्वात्त For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy