________________
मूलं-११६
३१९ कयोनिरवकाशाताप्रसङ्गात् पूर्ववदेशोनता लोकस्य वाच्या, अथानुपूर्वीरूपे क्षेत्रेऽवगाढत्वादचित्तमहास्कन्धस्यैवानुपूर्वीत्वं तर्हि द्रव्यानुपूर्व्यामिवात्रापि सम्पूर्णता लोकस्य वाच्येति, न चात्रानुपूर्व्या सकलस्यापि लोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्विप्रदेशरूपे च क्षेत्रेऽवगाढानां प्रत्येकमसभेयाना द्रव्यभेदानां सद्भावतस्तयोरपि प्रत्येकमसङ्खयेयभेदयोर्लोके सद्भावाद्, द्रव्यावगाहभेदेन च क्षेत्रभेदस्यह विवक्षितत्वादिति भावः, वृद्धबहुमतश्चायमपि लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति।
क्षेत्रस्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति, गतं स्पर्शनाद्वारं, अथ कालद्वारं
मू. (११६ वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं कालओ केवच्चिरं होइ ?, एवं तिनिवि, एगंदव्वं पडुच्च जहनेणं एगं समयं उक्कोसेणं असंखिजं कालं, नानादब्वाइं पडुच्च नियमा सव्वद्धा॥
वृ. तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया त्र्यादिप्रदेशवगाढद्रव्याणामेवानुपूर्व्यादिभाव: पूर्वमुक्तः, अतस्तेषामेवावगाहस्थितिकालं चिन्तयत्राह-'एगं दव्वं पडुच्चे'त्यादि, अत्र भावना-इह द्विप्रदेशावगाढस्य वा एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेशः सञ्जातः, समयं चैकं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा तद्रव्यं संजातमित्यानुपूर्व्याः समयो जघन्यावगाहस्थितिः, यदा तु तदेवो द्रव्यमसंख्येय कालं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकालः, सिद्धयति, अनन्तस्तु न भवति, विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टताऽप्यसङ्गयातकालमेवावस्थानादिति, नानाद्रव्याणि तु 'सर्वाद्धा' सर्वकालमेव भवन्ति; त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति, एवं यदा समयमेकं किञ्चिद् द्रव्यमेकस्मिन् प्रदेशेऽवगाढं स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदाऽनानुपूर्व्याः समयो जघन्याऽवगाहस्थितिः, यदा तु तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसंख्येयोऽवगाहस्थितिकालः नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाढद्रव्यभेदानां सर्वदैव सद्भावादिति, अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मिस्त्र्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तौ जघन्यः समयोऽवगाहस्थितिः, असंख्येयकालादूर्ध्वं द्विप्रदेशावगाहं परित्यजत उत्कृष्टोऽसंख्येयोऽगाहस्थितिकालः सिद्धयति, नानाद्रव्याणि तु सर्वकालं, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति, एवं समानवक्तव्यत्वादतिदिशति. 'एवं दोन्निवि'त्ति । इदानीमन्तरद्वारम्- मू. (११६ वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ ?, तिण्हंपि एगंदव्वं पडुच्च जहनेणं एक समयं उक्कोसेणं असंखेज्ज कालं, नानादव्वाइं पडुच्च नत्थि अंतरं॥ . वृ.'जहन्नेणं एक्कं समयं'ति, अत्र भावना-इह यदा त्र्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं एकस्माद्विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org