________________
मूलं - ४५
२७९
किं पुनस्तदित्याह-यदिदमज्ञानिकैर्मिथ्यादृिष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितं तल्लौकिकं, भावश्रुतमिति सम्बन्धः, तत्राल्पज्ञानभावतो ऽधनवदनशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धिविकल्पितम्, ईहावग्रहे बुद्धिः, अपाय धारणे तु मतिः, स्वच्छन्देन - स्वाभिप्रायेण तत्त्वत: सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमति विकल्पितं, स्वबुद्धिविकल्पनाशिल्पिनिर्मितमित्यर्थः । तत्प्रकटनार्थमेवेदमाह-‘तद्यथा-भारत' मित्यादि, एतच्च भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धि
गम्यम् ।
अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थमाह-'अहवा बावत्तरिकलाओ' इत्यादि, तत्र कलनानि-वस्तुपरिज्ञानानि कलास्ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धाः, चत्वारश्च वेदाः सामवेदऋग्वेदयजुर्वेदाथर्वणवेदलक्षणाः साङ्गोपाङ्गः, तत्राङ्गानि शिक्षा १ कल्प २ व्याकरण ३ च्छन्दो ४ निरुक्त ५ ज्योतिष्कायन ६ लक्षणानि षट्, उपाङ्गानि तद्वयाख्यानरूपाणि तैः सह वर्तन्ते इति साङ्गोपाङ्गाः 'से त' मित्यादि निगमनम् ।
उक्तं नोआगमतो लौकिकं भावश्रुतम्, अथ लोकोत्तरिकं तदेवाऽऽह
मू. (४६ ) से किं तं लोउत्तरिअं नोआगमतो भावसुअं ?, २ जं इमं अरिहंतेहिं भगवंतेहिं उप्पन्ननाणदंसणधरेहिं तीयपच्चु प्पन्नमनागयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं तिलुक्कवहितमहितपूइएहि अप्पडिहयवरनाणदंसणधरेहिं पणीअं दुवालसंगं गणिपिडगं, तंजहा-आयारो सूअगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइअदसाओ पण्हावागरणाइं विवागसुअं दिट्ठीवाओ अ, से तं लोउत्तरियं नोआगमतो भावसुआं, से त नोआगमतो भावसुआं, से तं भावसुआं ।
वृ. लोकोत्तरैः - लोकप्रधानैरर्हद्भिः प्रणीतं लोकोत्तरिकं, किं पुनस्तदित्याह - 'लोउत्तरियं भावसुअं जं इम' मित्यादि, यदिदमर्हद्भिर्द्वादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिकं भावश्रुतमिति सम्बन्धः, तद्यथा'आयारो सुयगडमि' (डो इ) त्यादि, तत्र सदेवमनुजासुरलोकविरचितां पूजामर्हन्तीति अर्हन्तस्तैः, एवंभूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यतस्तीर्थकरप्रतिपत्तये आह-'भगवद्भि 'रिति, समस्तैश्वर्यनिरुपमरूपयशः श्रीधर्मप्रयत्नवद्भिरित्यर्थः इत्थंभूताश्च अनाद्यप्रतिघज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभिः
"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः ।
एश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥”
इत्यादि, अतस्तद्वयवच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने न तु सहजे ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधारस्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, 'सहसिद्धं चतुष्टय' मित्यादिवचनविरोधप्रसङ्गात्, तर्हि सुगता इत्थंभूता अपि भविष्यन्तीत्याशंक्याऽऽह'तीयपच्चुप्पन्ने' त्यादि, अतीतवर्तमानभविष्यदर्थज्ञायकैरित्यर्थः, न च सुगतानामतीतभविष्यदर्थज्ञातृत्वसम्भवः, एकान्तक्षणभङ्गावादित्वेन तदसत्त्वाभ्युपगमाद्, असतां च ग्रहणेऽतिप्रसङ्गाद्, अथ सन्तानद्वारेण कालत्रयेऽप्यर्थनां सद्भावादतीताद्यर्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशंक्याऽऽह-‘सर्वज्ञैः सर्वदर्शिभि' रिति, सर्वम् - एकेन्द्रियद्वीन्द्रयजीवादि वस्तु केवलज्ञानेन
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International