________________
अनुयोगद्वार - चूलिकासूत्रं यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्ठिसं परित्यज्य रसो गृह्यते, तत्र च कश्चिद् योगः प्रक्षिप्यते, ततस्तेन यद् रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागं न मञ्चन्ति, 'से त' मित्यादि निमगनम् ।
अथ चतुर्थो भेद उच्यते- 'से किं तमित्यादि, अत्रोत्तरम् - 'वालयं पंचविह' मित्यादि, वालेभ्यः-ऊरणिकादिलोमभ्यो जातं वालजं, तत् पञ्चविधं प्रज्ञप्तं, तद्यथा - ऊर्णाया इदमौर्णिकम्, उष्ट्राणामिदमौष्टिकम्, एते द्वे अपि प्रतीते, ये मृगेभ्यो ह्रस्वका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिप्पनं मृगलोमिकृम्, उन्दुररोमनिष्पन्नं कौतवं, ऊर्णादीनां यदुद्धरितं किट्टिसं तन्निष्पत्रं सूत्रमपि किट्टिसम्, अथवा एतेषामेवोर्णदीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिसं, अथवा उक्तशेषाश्लादिलोमनिष्पन्नं किट्टिसं 'से त' मित्यादि निगमन् ।
२७८
अथ पञ्चमो भेदोऽभिधीयते - 'से त' मित्यादि, वल्काञ्जातं वल्कजं, तच्च सणप्रभृति, क्वचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवादिदेशप्रसिद्धं, 'से त' मित्यादि निगमन् ।
उक्तं पञ्चविधमण्डजादिसूत्रं, तद्भणने चोक्तं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतम् अतस्तदपि निगमयति-‘से तं जाणगे 'त्यादि, एतद्भणने च समर्थितं नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयति' से तं नोआगमओ' इत्यादि, एतत्समर्थने च समर्थितं द्विविधमपि द्रव्यश्रुततस्तदपि निगमयति-'से तं दव्वसुअ'मित्यादि । अथ भावश्रुतनिरूपणार्थमाह
मू. (४२) से किं तं भावसुआं ?, २ दुविहं पन्नत्तं, तंजहा-आगमतो अ नोआगमतो अ । वृ. अत्रोत्तरम् -'भावसुअं दुविह' मित्यादि, विवक्षितपरिणामस्य भवनं भावः स चासौ श्रुतं चेति भावश्रुतं भावप्रधान वा श्रुतं भावश्रुतं तद् द्विविधं प्रज्ञप्तम्-आगमतो नोआगमतश्च । तत्राऽऽद्यभेदनिरूपणार्थमाह
मू. (४३) से किं तं आगमतो भावसुअं?, जानए उवउत्ते, से तं आगमतो भावसुआं । वृ. अत्रोत्तरं श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमतः- आगममाश्रित्य भावश्रुतं श्रुतोपयोगपरिणामस्य सद्भावत् तस्य चाऽऽगमत्वादिति भावः, 'से त'मित्यादि निगमनम् । अथ द्वितीयभेद उच्यते
मू. (४४ ) से किं तं नोआगमतो भावसुअं? २ दुविहं पन्नत्तं, तंजहा - लोइअं लोगुत्तरिअं च । वृ. अत्रोत्तरम् -'नोआगमओ भावसुअं दुविहं पन्नत्तं, लोइयं लोउत्तरिअ' मित्यादि । अत्राऽऽद्यभेदनिरूपणार्थमाह
मू. (४५) से किं तं लोइअं नोआगमतो भावसुआं ?, २ जं इमं अन्नाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धिमविगप्पियं, तंजहा- भारहं रामायणं भीमासुरुक्खं कोडिल्लयं घोडयमुहं सगडभद्दिआउ कप्पासिअं नागसुहुमं कणगसत्तरी वेसियं वइसेसियं बुद्धसासणं काविलं लोगायतं सट्ठियंतं माढरपुराणवागरणनाडगाइ, अहवा बावत्तरिकलाओ चत्तारि वेआ संगोवंगा, से तं लोइयं नोआगमतो भावसुआं ।
वृ. अत्र निर्वचनम् -'लोइयं नोआगमतो भावसुअं जं इम' मित्यादि, लोकैः, प्रणीतं लौकिकं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org