SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ नन्दी - चूलिकासूत्रं ततो भूयश्चतुर्द्दश लक्षा नरपतीनां निरन्तरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि द्वौ सर्वार्थसिद्धे, एवं चतुर्द्दश २ लक्षान्तरितौ द्वौ २ सर्वार्थसिद्धे तावद्वक्तव्यौ यावत्तेऽपि द्विक २ सङ्ख्यया असङ्ख्यया भवन्ति, एवं त्रिक २ सङ्ख्यादयोऽपि प्रत्येकमसङ्ख्येयास्तावद्वक्तव्यां यावन्निरन्तरं चतुर्द्दश लक्षा निर्वाणे ततः पञ्चाशत्सर्वार्थसिद्धे ततो भूयोऽपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे ततः पुनरपि पञ्चाशत्सर्वार्थसिद्धे, पञ्चाशत्सङ्ख्याका अपि चतुर्द्दश २ लक्षान्तरितास्तावद्वक्तव्या यावत्तेऽप्यसङ्ख्येया भवन्ति, उक्तं च "चोदस लक्खा सिद्धा निवईणेक्को य होइ सव्वट्टे । ठाणे पुरिसजुगा होंतिऽसंकेज्जा ॥ वे पुनरवि चोद्दस लक्खा सिद्धा निवईण दोवि सव्वट्टे । दुगठाणेऽवि असंखा पुरिसजुंगा होंति नायव्वा ॥ जाय लक्खा लक्खा चोद्दस सिद्धा पन्नास होंति सव्वट्ठे । पन्नासद्वाणेवि उ पुरिसजुगा होंतिऽसंखेज्जा ॥ गुत्तरा उठाणा सव्वट्टे चेव जाव पन्नासा । एक्केकंतरठाणे पुरिसजुगा होंतिऽसंखेज्जा ॥ ततोऽनन्तरं चतुर्द्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्द्दश लक्षाः सर्वार्थ एकः सिद्धौः, एवं चतुर्द्दशचतुर्द्दशलक्षान्तरित एकैकः सिद्धौ तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्येया भवन्ति, ततो भूयोऽपि चतुर्द्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, ततः पुनरपि चतुर्द्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्वाणे एवं चतुर्द्दशलक्षान्तरितौ २ द्वौ २ निर्वाणे तावद्वक्तव्यौ यावत्तेऽपि द्विकसङ्ख्यया असङ्ख्येया भवन्ति, एवं त्रिक २ सङ्ख्यादयोऽपि यावत्पञ्चाशत्सङ्ख्याश्चतुर्द्दशचतुर्द्दशलक्षान्तरिताः सिद्धौ प्रत्येकमसङ्ख्येया वक्तव्याः, उक्तं च“विवरीयं सव्वट्टे चोद्दसलक्खा उनिव्वुओ एगो । सव्वे य परिवाडी पन्नासा जाव सिद्धीए ॥ ततः परं द्वे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो द्वे लक्षे निरन्तरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्वाणे, ततो भूयोऽपि तिस्रो लक्षाः सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं पञ्च पञ्च षट् २ यावदुभयत्राप्यसङ्ख्येया लक्षा वक्तव्याः, "तेन परं दुलक्खाइं दो दो ठाणा य समग वच्चंति । सिवगइसव्वद्वेहिं इणमो तेसिं विही होई ॥ दो लक्खा सिद्धीए दो लक्खा नरवईण सव्वट्ठे । एवं तिलक्ख चड पंच जाव लक्खा असंखेज्जा ॥ ततः परं चतस्त्रिश्चित्रान्तरगण्डिकाः, तद्यथा- प्रथमा एकादिका एकोत्तरा द्वितीया एखादिका त्रा, तृतीया एकादिका त्र्युत्तरा, चतुर्थी त्र्यादिका द्वयादिविषमोत्तरा, आह च"सिवगइसव्वद्वेहिं चित्तंतरगंडिया तओ चउरो । एगो गुत्तरिया गाइ बिउत्तरा बिइया ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy