________________
मूलं - १५४
२३३
दिद्विवायस्स नं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ पडिवत्तीओ संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ,
सेणं अंगट्टयाए बारसमे अंगे एगे सुअक्खधे चोद्दस पुव्वाइं संखेज्जा वत्थू संखेज्जा चूलवत्थू संखेज्जा पाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ पाहुडिआओ संखेज्जाओ पाहुडपाहुडिआओ संखेज्जाइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जावा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविज्जति पन्नविज्जंति परुविज्जति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति
से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आधविज्जति, से तं दिट्ठिवाए १२ ॥
वृ. 'सेत्तं पुव्वगए' तदेवत्पूर्वगतं । से किं तमित्यादि, अथ कोऽयमनुयोगः ? अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य खेनाभिधेयेन सार्द्धमनुरूपः सम्बन्धः, स च द्विघामूलप्रथमानुयोगो गण्डिकानुयोगश्च, इह मूलं धर्मप्रणयनात्तीर्थकरास्तेषां प्रथमः- सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, इक्ष्वादीनां पूर्वापरपूर्व परिच्छिन्नो मध्यभागो गण्डिका हण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिरित्यर्थः, तस्या अनुयोगो-गण्डिकानुयोगः
'से किं त'मित्यादि, अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह- मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे 'ण'मिति वाक्यालङ्कारे अर्हतां भगवतां सम्यक्त्वाभवादारभ्य पूर्वभवा देवलोकगमनानि तेषु पूर्वभवेषु देवभवेषु चायुर्देवलोकेभ्यश्च्यवनं तीर्थकरभवत्वेनोत्पादस्ततो जन्मानि ततः शैलराजे सुरासुरैर्विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावन्निगमनं
'से किं त 'मित्यादि, अथ कोऽयं गण्डिकानुयोगः ?, सूरिराह-गण्डिकानुयोगेन अथवा गण्डिकानुयोगे 'ण' मिति वाक्यालङ्कारे, कुलकरगण्डिकाः, इह सर्वत्राप्यपान्तरालवत्तिन्यो बह्वयः प्रतिनियतैकार्थाधिकाररूपा गण्डिकास्ततो बहुवचनं, कुलकराणां गण्डिकाः कुलकरगण्डिकाः, तत्र कुलकरणां विमलवाहनादीना पूर्व भवजन्मानामादीनि सपप्रञ्चमुपवर्ण्यन्ते, एवं तीर्थकरगण्डिकादिष्वभिदानवशतो भावनीयं, 'जाव चित्तंतरगण्डिआउ'त्ति चित्रा - अनेकार्था अन्तरेऋषभाजिततीर्थकरापान्तराले गण्डिकाः चित्रान्तरगण्डिकाः, एतदुक्तं भवति - ऋषभाजिततीर्थकरान्तरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिका गण्डिकाश्चित्रान्तरगण्डिकाः, तासां च प्ररूपणा पूर्वाचार्यैरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्त्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्त्तिसुतेभ्य आदित्ययशः प्रभृतीना भगवदृषभवंराजानां भूपतीनामेवं सङ्ख्यामाख्यातुमुपक्रमते स्म, आहच
'आइच्चजसाईणं उसभस्स परंपरा नरवईणं ।
सगरसुयाण सुबुद्धी इणमो संखं परिकहेइ ॥
आदित्ययशःप्रभृतयो भगवन्नाभेयवंशजास्त्रिखण्डभरतार्द्धमनुपालय पर्यन्ते पारमेश्वरीं दीक्षामभिगृह्य तत्प्रभावतः सकलकर्म्मक्षयं कृत्वा चतुर्द्दश लक्षा निरन्तरं सिद्धमगमन्, तत एकः सर्वार्थसिद्धो, ततो भूयोऽपि चतुर्द्दश लक्षा निरन्तरं निर्वाणे, ततोऽप्येकः सर्वार्थसिद्धे महाविमाने, एवं चतुर्द्दश लक्षान्तरितः सर्वार्थसिद्धावेकैकस्तावद्वक्तव्यो यावत्ते ऽप्येकका असङ्ख्येया भवन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org