SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२४ प्रस्तुतसूत्रस्यवतारः, आह चटीकाकृत् " इगवीसं कोडिसयं लक्खा पन्नास चेव बोद्धव्वा । एवं कए समाणे अहिगयसुत्तस्स पत्थावो ॥ द्वितीये श्रुतस्कन्धे दशधर्मकथानां वर्गाः, वर्गः समूहः, दश, धर्म्मकथासमुदाया इत्यर्थः, त एव च दशाध्ययनानि, एकैकस्यां धर्म्मकथायां - कथासमूहरूपायामध्यनप्रमाणायां पञ्च पञ्चाख्यायिकाशतानि, एकैकस्यां चाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्यया पञ्चविंशं कोटिशतं, इह नव ज्ञाताध्ययनसम्बन्ध्याख्यायिकादिसदृशा या आख्यायिकादयः पञ्चाशल्लक्षाधिकैकविंशकोटिशतप्रमाणास्ता अस्मात्पञ्चविंशतिकोटिशतप्रमाणाद्रोशे शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्य भवन्ति, तथा चाह 'एवमेव' उक्तप्रकारेणैव गुणिते शोधने च कृते 'सपूर्वापरेण' पूर्व श्रुतस्कन्धापरश्रुतस्कन्धकथाः समुदिता अनुपरुक्ता 'अद्धट्ठाओ'त्ति अर्द्धचतुर्थाः कथानक कोट्य भवन्तीत्याख्यातं तीर्थकरणगणधरैः, आह च टीकाकृत् “पुनवीसं कोडीसयं एत्थ य समलक्खणाइगा जंम्हा । नवनायासम्बद्धा अक्खाइयमाइया तेणं ॥ नन्दी - चूलिकासूत्रं ता सोहिज्जंति फुडं इमाओ रासीउ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेयं विनिद्दिद्धं ॥ तथा 'नायाधम्मकहाणं परित्ता वायणा' इत्यादि सर्वं प्राग्वद्भावनीयं यावन्निगगनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेण - पदपरिमाणेन, तानि च पञ्च लक्षाः षट्सप्ततिः सहस्राः पदमपि चात्रौपसर्गिकं नैपातिकं नामिकमाख्यातिकं मिश्रं च वेदितव्यं, तथा चाह चूर्णिकृत् -"पयग्गेणंति उवसग्गपयं निवायपयं नामियपयं अक्खाइयपयं मिस्सपयं च पए पए अधिकिश्च पंच लक्खा छावत्तरिसहस्सा पयग्गेणं भवंति" अथवेह पदं सूत्रालापकरूपमुपगृह्यते, ततस्तथारूपपदापेक्षया सङ्ख्येयानि पदसहस्राणि भवन्ति, न लक्षाः, आह च चूर्णिकृत् -"अहवा सुत्तालावगपयग्गेणं संखेज्जाई पयसहस्साइं भवंति" एवमुत्तरत्रापि भावनीयं ६ ॥ मू. ( १४५ ) सें किं तं उवासगदसाओ ?, उवासगदसासु णं समणोवासयाणं नगराई उज्जाणाई चेइआई वनसंडाई समोसरणाइं रायणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइ अपरलो इआइट्ठिविसेसा भोगपरिच्चाया पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाइं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासपडिवज्जणया पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाई पाओवगमनाइं देवलोगगमनाई सुकुलपच्चायाईओ पुनबोहिलाभा अंतकिरिआओ अ आषविज्जति, Jain Education International उवासगदसाणं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, सेणं अंगट्टयाए सत्तमे अंगे एगे सुअक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसकाला संखेज्जा पयसहस्सा पयग्गेणं सङ्ग्रेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy