SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मूलं - २ १९ स्यादेतद्-यदि वेदविषये करोति: स्मरणेन वर्त्येत तर्हि वेदस्य प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्यते तच्चापौरुषपेयत्वादेव, अन्यथा सर्वागमानामपि प्रामाण्यप्रसक्ते:, ततोऽत्रापि करोतिः प्रामाण्यान्यथानुपपत्त्यां स्मरणे वर्त्य इति, तदेतदसत्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि-प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोते, स्मरणे वर्त्तनं, करोतेः स्मरणे वृत्तौ चापौरुषेयत्वसिद्धितः प्रामाण्यमित्येकासिद्धावन्यतरासिद्धिः, अनैकान्तिकं च कर्त्तुरस्मरणं, 'वटे वटे वैश्रणव' इत्यादिशब्दानां पौरुषेयाणामपि कर्त्तुरस्मृतेः, यत्वान् तत्कतीरमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भसम्भवः, नियमाभावात् किंच अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्त्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रवण इत्यादेरस्तीति न प्रमाणात् कृतश्चिद्विनिश्चयः, किन्तु परोपदेशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात्, ततः कर्त्तुभावसन्देह इति सन्दिग्धासिद्धोऽप्यं हेतुः, एतेन यदन्यदपि साधनमवादीद्, वेदवादी- 'वेदाध्ययनं सर्व्वं गुर्व्वध्ययनपूर्वक, वेदाध्ययनत्वाद्, अधुनातनवेदाध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्यपौरुषेयत्वप्रसक्ते:, तथाहि - कुमारसम्भवाध्ययनं सर्वं गुर्वध्ययनपूर्वकं, कुमारसम्भवाध्ययनत्वाद्, इदानीन्तनकुमारसम्भवाध्ययनवदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेषामपौरुषयत्वं, स्वयंकरणपूर्वकत्वेनापि तदध्यययनस्य भावाद्, एवं वेदाध्ययनमपि किञ्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतत्-वेदाध्ययनं स्वयंकरणपूर्वकं न भवति, वेदानां स्वयं कर्त्तुमशक्तेः, तथा चात्र प्रयोगः --पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, इदानीन्तपुरुषवदिती, तदप्युक्तम्, अत्रापि हेतोर्व्यभिचारात्, तथाहि भारतादिष्विदानीन्तनपुरुषाणामशक्तावपि कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि सम्प्रति पुरुषाणां कर्त्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य शक्तिर्भविष्यतीति । अपि च यथाऽग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमबाध्यबाधकत्वान्न विरुध्यते, को ह्यत्र विरोधः अग्निश्च स्यात् कदाचिदरणिनिर्म्मथनपूर्वक: पथिकाग्नित्याद्, आद्यानन्तराग्निवदित्ययं हेतर्व्यभिचारी, विपक्षे वृत्तिसम्भवात्, तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवात् व्यभिचार्येव, तथाहि वेदाध्ययने स्वयंकरणपूर्वकमपीति, यदा त्वेवं विशिष्यते-यस्तु तथाविधः स्वयंकृत्वाऽध्येतुमसमर्थः तस्य वेदध्ध्ययनमध्ययनान्तरपूर्वकमिति, तदा न कश्चिद्दोषः, यथा यादृशोऽग्निर्वालाप्रभवो दृष्टः तादृशः सर्वोऽपि ज्वालाप्रभव इति, अस्तु वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वकं, तथाऽप्येवमानदिता सिद्धेद् वेदस्य, नापौरुषेत्वं, अथात एवानादितामात्रादपौरुषेयत्वसिद्धिरिप्यते तर्हि डिम्भकपांशुक्रीडादेरपि पुरुषव्यवहारस्यापौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्यात्, अपिच स्युरपौरुपेया वेदा यदि पुरुषाणामादिः स्याद् वेदाध्ययनं चानादि, तदाप्याद्यपुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्धयति, अध्यापतुरभावात्, न च पुरुषस्य ताल्वादिकरणग्रामव्यापाराभावात् स्वयं शब्दा ध्यनन्ति, ततो वेदस्य प्रथमोऽवात् स्वयं शब्दा ध्वनन्ति, ततो वेदस्य प्रथमोऽध्येता कर्त्तव वेदितव्यः, अपि च-यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां प्रसिद्धं तज्जाती For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy