SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ नन्दी-चूलिकासूत्रं एतावत्प्रमाणं चाक्षरं भवति, इह स्तोकत्वाद्धर्मास्तिकायादयः साक्षात्सूत्रे नोक्ताः, परमार्थतस्त् तेऽपि गृहीता द्रष्टव्याः, ततोऽयमर्थ:-सर्वद्रव्यप्रदेशाग्रं सर्वद्रव्यप्रदेशैरनन्तशो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं-सवंद्रव्यपर्यायपरिमाणं, एतावत्परिमाणं चाक्षरं भवति, ___ तदपि चाक्षरं द्विधा-ज्ञानमकारादिवर्णजातं च, उभयत्रापि अक्षरशब्दप्रवृत्ते रूढत्वात्, द्विविधमपि चेहगृह्यते, विरोधाभावात्, ननु ज्ञानं सर्वद्रव्यपर्यायपरिमाणं सम्भवतु, यतो ज्ञानमिहाविशेषोक्तौ सर्वद्रव्य पर्यायपरिमाणतुल्यताऽभिधानात्, प्रकमादा केवलज्ञानं गृहीष्यते, तच्च सर्वद्रव्यपर्यायपरिमाणं घटत एव, तथाहि-यावन्तो जगति रूपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रव्याणामरूपिद्रव्याणां वाऽगुरुलघुपर्यायास्तान् सर्वानपि साक्षात्करतकलकलितमुक्ताफलमिव केवलालोकन, प्रतिक्षणमवलोकेत भगवान,त्त च येन स्वभावेनकं पर्यायं परिच्छिनत्ति तेनैव स्वभावेन पर्यायान्तरमपि, तयोः पर्याययोरेकत्वप्रसक्तः, तथाहि घटपर्यायपरिच्छेदनस्वभावं यज्ज्ञानं तद्यदा पटपर्यायं परिच्छेत्तुमलं तदा पटपर्यायस्यापि घटपर्यायरूपताऽऽपत्तिः, अन्यथा तस्य तत्परिच्छेदनकत्वानुपपतेः, तथारूपस्वभावाभावत्, ततो यावन्तः परिच्छेद्याः पर्यायास्तावन्तः परिच्छेदकास्तस्य केवलज्ञानस्य स्वभावा वेदितव्याः, स्वाभावश्च पर्यायास्तत: पर्यायानधिकृत्य सर्वद्रव्यपर्यायपरिमाणं केवलज्ञानमुपपद्यते, यदकारादिकं वर्णजातं तत्कथं सर्वद्रव्यपर्यायपरिमाणं भवितुमर्हति?, तत्पर्यायराशेः सर्वद्रव्यपर्यायाणामनन्ततमे भागे वर्तमानत्वात्, तदयुक्तं, अकारादेरपिस्वपरपर्यायभेदभिन्नतया सर्वद्रव्यपर्यायपरिमाणतुल्यत्वाद्, आह च भाष्यकृत "एक्कक्कमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तंसव्वदव्वपज्जायरासिमाणं मुनेयव्वं।" ___ अथ कथं स्वपरपर्यायापेक्षया सर्वद्रव्यपर्यायराशितुल्यता?, उच्यते, इह अ अ अ इत्युदातोऽनुदात्त: स्वरितश्च, पुनरप्येकैको द्विधा-सानुनासिको निरनुनासिकश्चेत्यकारस्य पड्भेदातांश्च पड् भेदानकारः केवलो लभते, एवं ककारेणापि संयुक्तो लभते पडे भेदानेवं खकारेण एवं यावद्धकारेण, एवमेकैककेवलव्यञ्जनसंयोगे यथा पट् २ भेदान् लभते तथा सजातीयविजातीव्यञ्जनद्विकसंयोगेऽपि, एवं स्वरान्तरसंयुक्ततत्तद्व्यञ्जनसहितोऽप्यनेकान् भेदान लभते, अपिचएकेकोऽप्युदात्तादिको भेदः स्वरविशेषादनेकभेदो भवति, वाच्यभेदादपि च समानवर्णश्रेणीकस्यापि शब्दस्य भेदो जायते, तथाहि-न येनैव स्वभावेन करशब्दः हस्तमाचष्टे तेनैव स्वभावेन किरणमति, किन्तु स्वभावमेदेन, तथाऽकाराऽपि तेन तेन ककारादिना संयुज्यमानस्तं तमर्थं ब्रुवाणो भिन्नस्वभावो वेदितव्यः, ते च स्वभावा अनन्ता ज्ञातव्याः, वाच्यस्यानन्तत्वात्, एते च सर्वेऽप्यकारस्य स्वपर्यायाः, शेपास्तु सर्वेऽपि घटादिपर्याया आकारादिपर्यायाश्च परपर्यायाः, व च स्वपर्यायेभ्योऽनन्तगुणाः, तेऽपि चाकारस्य सम्बन्धिनो द्रष्टव्याः, आह ये स्वपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात् कथं तम्य सम्बन्धिनी व्यपदिश्यन्ते?, उच्यते, इह द्विधा सम्बन्धः--अस्तित्वेन नास्तित्वेन च, तत्रास्तित्वन सम्बन्धः स्वपर्यायैर्यथा घटस्य रूपादिभिः, नास्तित्वेन सम्बन्ध: परपर्यायैः तेषां तत्रासम्भवात्, यथा घटावस्थायां मृदः पिण्डाकारेण पर्यायेण, यत एव च ते तस्य न सन्तीति नास्तित्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy