________________
मूलं - १३६
१९१
भेदा: प्रदर्श्यन्तं इत्यर्थः, प्ररूप्यन्तं नामादिभेदस्वरूपकथनेन प्रख्यायन्ते नामादीनां भेदानां स्वरूपाख्यायते इति भावार्थ:, यथा
"पज्जायाणभिधेयं टियमत्रत्थे तदत्थनिरवेकखं । जाइच्छियं च नामं जाव दव्वं च पाएणं ॥ १॥
पुन तदत्थसुन्नं तदभिप्पाएण तारिसागरं । कीरइ व निरागारं इत्तरमियरं च सा ठवणा ॥ २ ॥ "
इत्यादि, तथा दर्श्यन्ते उपमानमात्रोपदर्शनेन प्रकटीक्रियन्ते, यथा गौरिव गवय इत्यादि, तथा निदर्श्यन्ते- हेतुदृष्टान्तोपदर्शनेन स्पष्टतरीक्रियन्ते, उपदर्श्यन्ते - उपनयनिगमनाभ्यां निःशङ्कं शिष्यवृद्धी स्थाप्यन्ते, अथवा उपदश्यन्ते सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिप्यबुद्धिपव्य वस्थाप्यन्तं, तान् भावान् 'तदा' तस्मिन् काले तथाऽऽख्यायमानान् प्रतीत्य सादिसपर्यवसितं एतदुक्तं भवति तस्मिन् काले तं तं प्रज्ञापकोपयोगं स्वरविशेषं प्रयत्नविशेषमासनविशेषमङ्गविन्यासादिकं च प्रतीत्य सादिसपर्यवसितम् उपयोगादेः प्रतिकालं अन्यथाऽन्यथाभवनात् "उवयोगसरपयत्ता आसनभेयाइया य पइसमयं ।
भिन्ना पत्रवगस्सा साइयसपज्जंतयं तम्हा । "
क्षायोपशमिक भावं पुनः प्रतीत्यानाद्यपर्यवसितं प्रवाहरूपेण क्षायोपशमिकभावस्यानाद्यपर्यवसितत्वात्. अथवाऽत्र चतुर्भङ्गिकाः, तद्यथा-सादिसपर्यवसितं १ साद्यपर्यवसित २ मनादिसपर्यवसित ३ मनाद्यपर्यवसितं च ४, तत्र प्रथमभङ्गप्रदर्शनायाह--' अथवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने भवसिद्धिको भव्यस्तस्य सम्यक् श्रुतं सादि (स) पर्यवसितं सम्यक्त्वलाभे प्रथमतया भावात् भूयो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात्, द्वितीयस्तु भङ्गः शून्यो, न हि सम्यक् श्रुतं मिथ्या श्रुतं वा सादि भूत्वाऽपर्यवसितं सम्भवति, मिथ्यात्वप्राप्तो केवलोत्पत्तौ वाऽवश्यं सम्यक्श्रुतस्य विनाशात्, मिथ्या श्रुतस्यापि च सादेरवश्यं कालान्तरे सम्यक्त्वावाप्तावभावादिति, तृतीयभङ्गस्तु मिथ्या श्रुतपेक्षया वेदितव्यः, तथाहि - भव्यस्यानादिमिथ्यादृष्टेमिथ्या श्रुतमनादि सम्यक्त्वावाप्तौ च तदपयातीति सपर्यवसितं चतुर्थभङ्गकं पुनरुपदर्शयति- 'अभवे 'त्यादि, अभवसिद्धिकः-अभव्यस्तस्य श्रुतं मिथ्याश्रुत मनाद्यपर्यवसतितं, तस्य सदैव सम्यक्त्वादिगुणहीनत्वात्. एपा चतुर्थभङ्गिका यथा श्रुतस्योक्ता तथा मतरेपि द्रष्टव्या, मतिश्रुतयोरन्योऽन्यानुगतत्वात्, केवलमह श्रुतस्य प्रक्रान्तत्वात्साक्षात्तस्यैव दर्शिता, अत्राह - ननु तृतीयभङ्गे चतुर्थभङ्गे वा श्रुतस्यानादिभाव उक्तः, स च जघन्य उत मध्यम आहोश्विदुत्कृष्टः ?, उच्यते, जघन्यो मध्यमो वा न तूष्कृष्टो, यतस्तस्येदं मानं
'सव्वागासे' त्यादि, सर्वं च तदाकाशं च सर्वाकाशं, लोकालोकाकाशमित्यर्थः, तस्य प्रदेशाः - निर्विभागा भागाः सर्वाऽऽकाशप्रदेशास्तेषामग्रं प्रमाणं सर्वाकाशप्रदेशानं तत्सर्वाकाशप्रदेशैरनन्तगुणितमनन्तरो गुणितमकैकस्मिन्नाकाशप्रदेशे ऽनन्तागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते - पर्यायपरिमाणाक्षरं निष्पद्यते, इयमत्र भावना--सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैरतो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं सर्वाकाशपर्यायाणामग्रं भवति, एकैकस्मिन्नाकाशप्रदेशे यावन्ताऽगुरुलघुपर्यायास्ते सर्वेऽपि एकत्र पिण्डिता एतावन्तो भवन्तीत्यर्थः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
--