________________
मूलं-१३६
१८९ यार्थता, तया पर्यायापेक्षयेत्यर्थः, किमित्याह -सादिसपर्यवासितं नारकादिभवपरिणत्यपेक्षया जीव इव, 'अवुच्छित्तिनयट्ठयाए'ति अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्तिनयस्त-- म्यार्थाऽव्यवच्छित्तिनयार्थी, द्रव्यमित्यर्थः, तद्भावस्तता तया, द्रव्यापेक्षया इत्यर्थः, किमित्याहअनादिअपर्यवसितंत्रिकालावस्थायित्वाज्जीववद्, अधिकृतमेवार्थं द्रव्यक्षेत्रादिचतुष्टमधिकृत्य प्रतिपादयति___'तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यत: क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे सम्यक्श्रुतमेकं पुरुषं प्रतीत्य सादिसपर्यवसितं, कथमिति चेत्?, उच्यते, सम्यक्तवावाप्तौ ततः प्रथमपाठतो वा गादि पुनर्मिथ्यात्वप्राप्ती सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा सुरलोकगमनसम्भवतो वा विस्मृतिमुपागते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं, बह्न पुरुपान् कालत्रयवर्तिनः पुनः प्रतीत्यानाद्यपर्यवसितं, सन्तानेन प्रवृत्तत्वात्, कालवत्, तथा क्षेत्रतो 'ण'मिति वाक्यालङ्कार पञ्च भरतानि पञ्चैरवतानि प्रतीत्य सादिसपर्यवसानं, कथं?, उच्यते, तेषु क्षेत्रेप्ववसपिण्यां सुषमदुष्पमापर्यवसाने उत्सप्पिण्यां तु दुण्यमसुषमाप्रारम्भे तीर्थकरधर्मसङ्घानां प्रथमतयोत्पत्तेः सादि, एकान्तदुप्पमादौ च काले तदभावात् सपर्यवसितं, तथा महाविदेहान् प्रतीत्यानाद्यपर्यवसितं, तत्र प्रवाहापेक्षया तीर्थकरादीनामव्यवच्छेदात् तथा कालतो 'ण'मिती वाक्यालङ्कारे, अवप्पिणीमुत्सप्पिणीं च प्रतीत्य सादिसपर्यवसितं, तथाहि-अवसप्पिण्यां तिसृष्वेव समासु सुषमदुप्पमादुप्पमसुषमादुण्यमारूपासूत्सपिण्यां तु द्वयोः समयोः दुप्पमसुपमासुषमदुप्यमारूपयोर्भवति, न परतः, ततः सादिसपर्यवसितं, अत्र चोत्सप्पिणीस्वरूपज्ञापनार्थं कालचक्रं विंशतिसागरोपकोटाकोटीप्रमाणं विनेयजनानुग्रहार्थं यथा मूलवृत्तिकृता दर्शितं तथा वयमपि दर्शयामः
"चत्तारि सागरोवमकोडि कोडीउ संतईए उ। एगंतसुस्समा खलु जिनेहि सवेहि निद्दिट्टा ।।१।। तीए पुरिसाणमाऊ तिन्नि य पलियाई तह पमाणं च।
तिन्नेव गाउयाइं आइए भणंति समयन्नू ।।२।। उवभोगपरीभोगा जम्मंतरसुकयबीयजाया उ। कप्पतरुसमूहाओ होंति किलेसं विना तेसिं।।३।। ते पुन दसप्पयारा कप्पतरू समणसमयकेऊहि
धीरेहिं विनिदिट्टा मनोरहापूरगा एए॥४॥ मत्तंगया य भिंगा तुडिअंगा दीव जोइ चित्तङ्गा। चित्तरसा मणियंगा गेहागारा अनिय(गि)णा य ।।५।।
मत्तंगएसु मज्जं सुहपेज्जं भायणाणि भिंगेसु। तुडियंगेसु य संगमयतुडियाणि बहुप्पगाराणि ।।६।। दीवसिहा जोइसनामया य निच्चं करंति उज्जोयं।
चित्तगंसु य मलं चित्तरमा भोयणट्ठाए ।।७।। मणियंगेसु य भूसणवराणि भवनानि भवणरुक्खेसुं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org