________________
१६०
नन्दी-चूलिकासूत्रं वा वर्णं कुञ्चिकायां गृह्णाति यावन्मात्रेण प्रयोजनमिति। उक्ता कर्मजा बुद्धिः, सम्प्रति पारिणामिक्या लक्षणमाहमू.(१०६) अनुमानहेउदिटुंतसाहिआवयविवागपरिणामा।
हिअनिस्सेअसफलवई बुद्धी परिणामिआ नाम।। वृ.'अणुमाणे'त्यादि, लिङ्गाल्लिङ्गिनि ज्ञानमनुमानं, तच्च स्वार्थानुमानमिह दृष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतुः, परार्थानुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारकं हेतुः, दृष्टान्तः प्रतीतः, आहअनुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्योपन्यासेन, उच्यते, अनुमानस्य कचिदृष्टान्तमन्तरेणान्यथानुपपत्तिग्राहकप्रमाणबलेन प्रवृत्तेः, यथा सात्मकं जीवच्छरीरं, प्राणादिमत्त्वान्यथानुपपत्तेः, न च दृष्टान्तोऽनुमानस्याङ्ग, यत उक्तम्-"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्?" ततः पृथग्दृष्टान्तस्योपादानं, तत्र साध्यस्योपमाभूतो दृष्टान्तः, तथा चोक्तम्-"यः साध्यस्योपमाभूतः, (स) दृष्टान्त इति कथ्यते।" . अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तद्विपाके परिणामः-पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम्अभ्युदयो निःश्रेयसं-मोक्षस्ताभ्यां फलवती ते द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः परिणामिकी नाम।
अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपंप्रकटयति-'अभये' इत्यादिगाथात्रयं, अस्यार्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि प्रायोऽतीव गुरूणि प्रसिद्धानि च ततो ग्रन्थान्तरेभ्योऽवसेयानि, इह त्वक्षरयोजनामात्रमेव केवलं करिष्यते। मू.(१०७) अभए १ सिटि २ कुमारे ३ देवी४ उदिओदए हवइ राया५ ।
साहू य नंदिसेने ६ धनदत्ते ७ सावग ८ अमच्चे ९॥ वृ.तत्र अभय 'त्ति अभयकुमारस्य यच्चण्डप्रद्योताद्वरचतुष्टयमार्गणं यच्चण्डप्रद्योतं बद्ध्वा नगरमध्येनारटन्तं नीतवानित्यादि सा परिणामकी बुद्धिः।
'सेट्ठि'त्ति काष्ठश्रेष्टी, तस्य यत्स्वभार्यादुश्चरितमवलोकस्य प्रव्रज्याप्रतिपत्तिकरणं, यच्च पुत्रे राज्यमनुशासति वर्षाचतुर्मासकानन्तरंविहारक्रमं कुर्वतः पुत्रसमक्ष धिग्जातीयैरुपस्थापिताया व्यक्षरिकाया आपन्नसत्त्वायास्त्वदीयोऽयं गर्भस्त्वं च ग्रामान्तरं प्रति चलितः ततः कथमहं भविष्या-मीति वदन्त्याः प्रवचनापयशोनिवारणाय यदि मदीयो गर्भस्ततो योनेविनिर्गच्छतु नो चेदुदरं भित्त्वा विनिर्गच्छत्विति यत् शापप्रदानं, सा परिणामिकी बुद्धिः।। ___ 'कुमारे'त्ति मोदकप्रियस्य कुमारस्य प्रथमे वयसि वर्तमानस्य कदाचिद्गुणन्यां गतस्य प्रमादादिभिः सह यथेच्छं मोदकान् भक्षितवतोऽजीर्णरोगप्रादुर्भावादतिपूतिगन्धि वातकायमुत्सुजतो या उद्गता चिन्ता, यथा अहो! तादृशान्यपि मनोहराणि कणिकादीनि द्रव्याणि शरीरसम्पर्कवशात्पूतिगन्धानि जातानि, तस्माधिगिदमशुचि शरीरं, धिग्मोहो, यदेतस्यापि शरीरस्य कृते जन्तुः पायान्यारभते, इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत ऊर्ध्वं तस्य शुभशुभतराध्यवसायभावतोऽन्तमुहूर्तेन केवलज्ञानोत्पत्तिः। 'देवित्ति देव्याः पुष्पवत्यभिधानायाः प्रव्रज्यां परिपाल्य देवत्वेनोत्पन्नाया यत्पुष्पचूला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org