SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ नन्दी - चूलिकासूत्रं वहि: सभायामेकत्र मिलितवान्, सगौरवमाकारिता रोहकः, आभाषितश्च ग्रामप्रधानैः पुरुषै:वत्स ! प्राचीनमपि दुष्टराजादेशसिन्धुं त्वयैव निजबुद्धिसेतुबन्धेन समुत्तारितः सर्वोऽपि ग्रामः, ततः सम्प्रत्यपि प्रगुणीकुरुनिजबुद्धिसेतुबन्धं येनास्यापि दुष्टराजादेशसिन्धोः पारमधिगच्छाम इति, तत उवाच रोहको-वृकं प्रत्यासन्नं धृत्वा मेण्ढकमेनं यवसदानेन पृष्टीकुरुत, यवसं हि भक्षयन्त्रेष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न बलवृद्धिमाप्स्यतीति, ततस्ते तथैव कृतवन्तः, पक्षातिक्रमे च तं राज्ञः समर्पयामासुः, तोलने च स तावत्पलप्रमाण एव जातः । ततो भूयोऽपि कतिपयदिनानन्तरं राज्ञा कुर्कुटः प्रेषितः, एष द्वितीयं कुर्कुटं विना योधितव्य इति, एवं सम्पाप्ते राजादेशे मिलितः सर्वोऽपि ग्रामो बहिः सभायाम् आकारितो रोहकः कथितश्च तस्य राजादेशः, ततो रोहकेणादर्शको महाप्रमाण आनायितो निमृष्टश्च भूत्या सम्यक्, ततो धृतः पुरो राजकुर्कुटस्य, ततः स राजकुर्कुट: प्रतिबिम्बमात्मीयमादर्शे दष्टवा मत्प्रतिपक्षोऽयमपरः कुर्कुट इति मत्वा साहङ्कारं योद्धुं प्रवृत्तो, जडचेसो हि प्रायस्तिर्यञ्चोअ भवन्ति, एवं चापरकुर्कुटमन्तरेण योधिते काजकुर्कुटे विस्मितः सर्वोऽपि ग्रामलोकः, सम्पादितो राजादेशः, निवेदितं च राज्ञो निजपुरुषैः । ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान्युष्मद्ग्रामस्य सर्वतः समीपे अतीव रमणीया वालुका विद्यन्ते, ततः स्थूला वालुकामयाः कतिपये दवरका: कृत्वा शीघ्रं प्रेषणीया इति, एवं राजादेशे समागते मिलितः सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकः, ततो रोहकेण प्रत्युत्तरमदायि-नटा वयं, ततो नृत्तमेव वयं कर्त्तुं जानीमो न दवरकादि, राजादेशश्चावश्यं कर्त्तव्यः, ततो बृहद्राजकुलमिति चिरन्तना अपि कतिचिद्वालुकामया दवरका भविष्यन्तीति तन्मध्यादेकः कश्चित् प्रतिच्छन्दभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म इति, ततो निवेदितमेतद्राज्ञे नियुक्तपुरुषैः, राजा च निरुत्तरीकृतस्तूष्णीमास्ते । , ततः पुनरपि कतिचिद्दिनानन्तरं जीर्णहस्ती रोगग्रस्तो मुमूर्षुर्ग्रामे राज्ञा प्रेषितो यथाऽयं हस्ती मृत इति न निवेदनीयो, अथ च प्रतिदिवसमस्य वार्त्ता कथनीया, अकथने महान् ग्रामस्य दण्डः, एवं च राजादेशे समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः, पृष्टश्च रोहकः, ततो रोहणोक्तं - दीयतामस्मै यवसः पश्चाद् यद्भविष्यति तत्करिष्यामि, ततो रोहकादेशेन दत्तो यवसंस्तस्मै, रात्रौ च स हस्ती पञ्चत्वमुपागमत्, ततो रोहकवचनतो ग्रामेण गत्वा राज्ञे निवदितंदेव ! अद्य हस्ती न निषीदति नोत्तिष्ठति न कवलं गृह्णाति नापि नीहारं करोति नाप्युच्छासनिश्वासौ विदधाति, किं बहुना ?, देव! कामपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितंकिं रे मृतो हस्ती ?, ततो ग्राम आह-देव ! देवपादा एवं ब्रुवते, न वयमिति, तत एवमुक्ते राजा मौनमाधाय स्थितः आगतो ग्रामलोके : स्वग्रामे । ततो भूयोऽपि कतिपयदिनातिक्रमो राजा समादिष्टवान्-अस्ति यौषमाकीणे ग्रामे सुस्वादुजलसम्पूर्ण: कूपः, स इह सत्वरं प्रेषितव्यः तत एवमादिष्टो ग्रामो रोहकं पृष्टवान्, रोहकश्चोवाच- एष ग्रामयेकः कूपो, ग्रामयेकश्च स्वभावाद्भीरुर्भवति न च सजातीयमन्तरेण विश्वासमुपगच्छति, ततो नागरिकः कश्चिदेकः कूपः प्रेष्यतां येन तत्रैष विश्वस्य तेन सह समागच्छतीति, एवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञो निवेदितं राजा स्वचेतसि रोहकस्यबुद्ध्यतिशयं परिभाव्य मौनमवलम्ब्य स्थितः 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy