________________
मूलं-९७
१४१ पिता च किमपि मे विस्मृतमिति रोहकं सिप्रानदीतटेऽवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविक्षत, रोहकोऽपि च तत्र सिप्राभिधसिन्धुसैकते बालचापलवशात् सप्राकारां परिपूर्णामपि पुरी सिकताभिरालिखत्, इतश्च राजा अश्ववाहनिकायामश्वं वाहयान् कथञ्चिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्त्तत, तंचस्वलिखितनगरीमध्येन समागच्छन्तं रोहकोऽवादीत्-भो राजपुत्र! माऽनेन पथा समागमः, तेनोक्तं-किमिति?, रोहक आह-कित्वं राजकुलमिदं न पश्यसि?, स राजा कौतुकवशात् सकलामपि नगरी तदालिखितामवेक्षत, पप्रच्छ च तं बालकं-रे अन्यदा त्वया नगरी दृष्टाऽऽसीन वा?, रोहक आह-नैव कदाचित् केवलमहमद्यैव स्वग्रामादिहागतः, ततश्चिन्तयामास राजा-अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहकोवत्स ! किं ते नाम क्क वा ग्राम इति?, तेनोक्तं-रोहक इति मे नाम, प्रत्यासन्ने च पुरो ग्रामे वसामीति, अत्रान्तरे समागतो रोहकस्य पिता, चलितौ च स्वग्राम प्रति द्वावपि,
राजा च स्वस्थानमगमत्, चिन्तयति स्म च-ममैकोनानि मन्त्रिणां पञ्च शतानि विद्यन्ते, तद्यदि सकलमन्त्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञाऽतिशायी परमो मन्त्री सम्पद्यते ततो मे राज्यं सुखेनैधते, बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलोऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते, एवं च चिन्तयित्वा कतिपयदिनान्तरंरोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान्-यथा युष्मद्ग्रामस्य बहिरतीव महती शिला वर्त्तते तामनुत्पाट्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान्, पृच्छति स्म परस्परंकिमिदानी कर्त्तव्यं?, दुष्टो राजादेशोऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभूतानां तेषा मध्यन्दिनमागतं, रोहकश्च पितरमन्तरणे न भुंक्ते, पिता च ग्राममेलापके मिलितो वर्तते, ततः स क्षुधा पीडितः पितुः समीपे समागत्य रोदितुं प्रावर्त्ततपीडितोऽहमतीवक्षुधा, ततः समागच्छ गृहे भोजनायेति, भरतः प्राह-वत्स! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि, स प्राह-पितः ! किं किं तदिति ?,
ततो भरतो राजादेशं सविस्तरमचीकथत्, ततो निजबुद्धिप्रागल्भ्यवशात्, झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं-माऽऽकुलीभवत यूयं, खनत शिलाया राज्ञोचित्तमण्डनिष्पादनायाधस्तात् स्तम्भांश्च यथास्थानं निवेशयत भित्तीश्चोपलेपनादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपत्रः, गतः सर्वोऽपि ग्रामलोके: स्वस्वगृहे भोजनाय, भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूणो मण्डपः, कृता च शिला तस्याच्छादनं, निवेदितं च राजे राजनियुक्तैः पुरुषैः-देव! निष्पादितो ग्रामेण देवादेशः, राजा प्राह-कथमिति !, ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथमायासुः, राजा प्रपच्छ-कस्येयं बुद्धिः?, तेऽवादिषुः-देव! भरतपुत्रस्य रोहकस्य, एषा रोहकस्यौत्पत्तिकी बुद्धिः। - एवं सर्वेष्वपि संविधानकेषु योजनीयं, ततो भूयोऽपि राजा रोहकबुद्धिपरीक्षार्थं मेण्ढकमेकं प्रेषितवान्, एष यावत्पलप्रमाणः सम्प्रति वर्त्तते पक्षातिक्रमेऽपि तावत्पलप्रमाण एव समर्पणीयो, न न्यूनो नाप्यधीक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org