________________
-
-
मूलं-१ कृतत्वात् न प्राणापानातिशयसम्भवेऽपि चैतन्यस्यातिशयसम्भवः, अत एव मृतावस्थायामपि नचैतन्यं, देहस्य विगुणीभूतत्वात्, तदसमीचीनतरम्, एवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तः,
तथाहि-मृतस्य दोषाः समीभवन्ति, समीभवनंचदोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, 'तेषां समत्वमारोग्यं, क्षय, वृद्धी विपर्यये इतिवचनात्, आरोग्यलाभात्, स्वदेहस्य पुनरुज्जीवनं भवेत्, अन्यथा देह: कारणमेव न स्यात्, चेतसः तद्विकारभावाभावननुविधानात्, एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत्, स्यादेतदअयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि देहस्य वैगुण्यमाधाय निवृत्ताः तथापिन तत्कृतस्य वैगुण्यस्य निवृत्तिः, न हि दहनकृतो विकारः काष्ठे दहननिवृत्तौ निवर्तमानो दृष्टः, तदयुक्तम्, इह हि किञ्चित् क्वचिदनिवर्त्यविकारारम्भकं यथा वह्निः काष्ठे, न हि श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्तते, किञ्चित्पुनः कचित् निवर्त्यविकाररम्भकं यथा स एवाग्निः सुवर्णे, तथाहि-अग्निकृता सुवर्णे द्रवताऽग्निनिवृत्तो निरर्त्तते, तथा वाय्वादयो दोषा निवर्त्यविकाररम्भकाः, चिकित्सा-प्रयोगदर्शनाद्, यदि पुनरिवर्त्यविकारारम्भका भवेयुः तर्हिन तद्विकारनिवर्त्तनायचिकित्सा विधीयते, वैफल्यप्रसङ्गात्, नच वाच्यम्-मरणात् प्राग्दोषा निवर्त्यविकाररम्भका मरणकाले त्वनिवर्त्यविकारारम्भका इति, - एकस्यैकत्रैवनिवानिवर्त्यविकाररम्भाकत्वायोगात्, न हि एकमेव तत्रैव निवर्त्यविकारारम्भकमनिवर्त्यविकारारम्भकं च भवितुमर्हति, तथाऽदर्शनात्, ननु द्विविधो हि व्याधिःसाध्योऽसाध्यश्च, तत्र साध्यो निवर्त्यस्वभावः, तमेवाधिकृत्य चिकित्सा फलवती, असाध्योऽनिवर्तनीयः, न च साध्यासाध्यभेदेन व्याधिद्वैविध्यमप्रतीतम्, सकललोकप्रसिद्धत्वाद्, व्याधिश्च दोषवैषम्यकृतः, ततः कथं दोषाणां निवानिवर्त्यविकाराराम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यव्याधेरेवानुपपत्तेः, तथाहि-असाध्यता व्याधे: क्वचिदायुःक्षयात्, यतः तस्मिन्नेव व्याधौ समानौषधवैद्यसम्पर्केऽपि कश्चिन्मियते, कश्चित् न क्वचित्पुनः प्रतिकूलकम्र्मोदयात्, प्रतिकूलकर्मोदयजनितो हि श्चित्रादिव्याधिरौषधसहस्त्रैरपि कश्चिदसाध्यो भवति, एतच्च द्विविधमप्यसाध्यत्वंव्याधेः परमेश्वप्रवचनवेदिनामेव मते सङ्गच्छते, न भवतो भूतमात्रतत्त्ववादिनः, कचित्पुनरसाध्यो व्याधिर्दोषकृतविकारनिवर्तनार्थमिष्यते न पुनरत्यन्तासतश्चैतन्यस्योत्यादनार्थं, तथाऽनभ्युपगमात्, दोषकृताश्च विकारा मृतावस्थानां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्यौपधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गः । अपि च-कश्चिद् दोषाणामुपशमेऽप्यकस्मादेव म्रियते, कश्चिच्चातिदोषदुष्टत्वेऽपि जीवति, तदेतद् भवन्मते कथं व्यवतिष्ठते?, आह च
"दोषस्योपशमेऽप्यस्ति, मरणं कस्यचित्पुनः।
जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते॥" अस्माकं तुमतेन यावदायुःकर्म विजृम्भते तावद्दोरैरतिपीडितोऽपिजीवति, आयुःकर्मक्षये च दोषाणामविकृतावपि म्रियते, तन्न देहमात्रनिमित्तं संवेदनम्।
अन्यच्च-देहः कारणं संवेदनस्य सहकारिभूतं भवेदुपादानभूतं वा?, यदि सहकारिभूतं तदिष्यत एव, देहस्यापि क्षयोपशमहेतुतया कथञ्चिद् विज्ञानहेतुत्वाभ्युपगमात्, अथोपादानभूतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org