________________
नन्दी - चूलिकासूत्रं
८
यदि इन्द्रियविज्ञानविरहादिति तदिष्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं तु कस्मात् न भवति ?, अथ मनोविज्ञानं नोत्पादयतीति अचेतनत्वं, तदा तदेव विचार्यमाणं इति प्रतिज्ञार्थैकदेशासिद्धो हेतु:, तदप्यसत्, अचेतनत्वादिति किमुक्तं भवति ? - स्वनिमित्तविज्ञानैः स्फुरच्चिद्रूपतयाऽनुपलब्धेः, स्पर्शादयो हि स्वस्वनिमित्तविज्ञानैः स्फुरच्चिद्रूपा उपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति युक्तम्, केशनखादयस्तु न मनोज्ञानेन तथा स्फुरच्चिद्रूपा उपलभ्यते ततः कथं तेभ्यो मनोज्ञानं भवतीति प्रतीम: ?, आह च
"चेतयन्तो न दृश्यन्ते, केशश्मश्रुनखादयः ततस्तेभ्यो मनोज्ञानं, भवतीत्यतिसाहसम् ॥"
अपि च-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततः तदुच्छेदे मूलत एव न स्यात्, तदुपघाते चोपहतं भवेत्, न च भवति, तस्मात् नायमपि पक्षः क्षोदक्षम:, किञ्च मनोज्ञानस्य सूक्ष्मार्थमे (वे)तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि - तदेव शास्त्रमूहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थाववोध उल्लसति स्मृतिपाटवं चापूर्वमुज्जृम्भते, एवं चैकत्र शास्त्रेऽभ्यासतः सूक्ष्मार्थमे (वे) त्तृत्वशक्तौ स्मृतिपाटवशक्तौ चोपजातायामन्येष्वपि शास्त्रान्तरेष्वनायासनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति, तदेवमभ्यासहेतुकाः सूक्ष्मार्थमे (वे) त्तृत्वादयो मनोज्ञानस्य विशेषा दृष्टाः, अथ कस्यचिदिहजन्माभ्यासव्यतिरेकेणापि दृश्यन्ते, ततोऽवश्यं ते पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यम्, कारणेन सहकार्यस्यान्थाऽनुपपन्नत्वप्रतिबन्धतोऽदृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चिते:, ततः सिद्धः परलोकवायी जीवः, सिद्धे च तस्मिन् परलोकवायिनि यदि कथञ्चिदुपकारी चाक्षुपादेर्विज्ञानस्य देहो भवेत् भवतु न कश्चिद् दोषः,
क्षयोपशम हेतुतया देहस्यापि कथञ्चिदुपकारित्वाभ्युगमात्, न चैतावता तन्निवृत्तो सर्वथा तन्निर्वृत्तिः न हि वह्नेरासादितविशेषो घटो वह्निनिवृत्तौ समूलोच्छेदं निवर्त्तते, केवलं विशेष एव कश्चनापि, यथा सुवर्णस्य द्रवता, एवमिहापि देहनिवृत्तौ ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्त्ततां न पुनः समूलं ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेवविज्ञानमिष्येत देहनिवृत्तौ च निवृत्तिमत् तर्हि देहस्य भस्मावस्थायां मा भूत्, देहे तु तथाभूते एवावतिष्ठमाने मृतावस्थायां कस्मात् न भवति ?, प्राणा-पानयोरपि हेतुत्वात् तदभावान्न भवतीति चेत्, न प्राणापानयोर्ज्ञानाहेतुत्वायोगात्, ज्ञानादेव तयोरपि प्रवृत्तेः, तथाहि मन्दौ प्राणापानौ निःस्त्रमिष्यते ततो मन्दौ भवतः दीर्घौ चेत्तर्हि दीर्घाविति, यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि त्थमिच्छावशात् प्राणापानप्रवर्तनं भवेत्,
न हि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात् प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदि विज्ञानं ततः प्राणापाननिर्ह्रासातिशयसम्भवे विज्ञानस्यापि निहूसातिशयौ स्याताम्, अवश्यं हि कारणे परिहीयमानेऽभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयन्, अन्यथा कारणमेव तद् न स्याद्, न च भवतः प्राणापाननिहूसातिशयसम्भवे विज्ञानस्यापि निर्ह्यासातिशयौ, विपर्ययस्यापि भावात्, मरणावस्थायां प्राणापानातिशयसम्भवेऽपिविज्ञानस्य निर्यासदर्शनात्, स्यादेतत्- तदानीं वातपित्तादिभिर्दोषैर्देहस्य विगुणी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International