________________
११०
नन्दी-चूलिकासूत्रं नाणा ९ गाहु १० कस्से ११ अंतर १२ मनुसमय १३ गणण १४ अप्पबहू १५ ॥" । तत्र प्रथमत एषु द्वारेषु सत्पदप्ररूपणया अनन्तरसिद्धाश्चिन्त्यन्ते, क्षेत्रद्वारे त्रिविधेऽपि लोके सिद्धाः प्राप्यन्ते, तद्यथा-ऊर्ध्वलोके अधोलोके तिर्यगलोक च, तत्रोर्ध्वलोके पाण्डुकवनादौ अधोलोके अधोलौकिकेषु ग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे, तत्रापि निर्व्याघातेन पञ्चदशसु कर्मभूमिपु, व्याधातेन समुद्रनदीवर्षघरपर्वतादावपि, व्याघातो नाम संहरणं, उक्तं च
"दीवसमुद्देड्डाइज्जएसु वाधाय खेत्तओ सिद्धा।
निव्वाघाएण पुणो पनरससुं कम्मभूमीसुं।" तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा, तत्राधोलोकेऽधोलौकिकेपु ग्रामेषु तिर्यग्लोके पञ्चदशसु कर्मभूमिषु, न शेषेषु स्थानेषु, शेपेषु हि स्थानेषु संहरणतः तृतीयचतुर्थारकयोः, सिद्धिगमनं तु केषाञ्चित् पञ्चतेऽप्यरके यथा जम्बूस्वामिनः, उत्सपिण्यां जन्म चरमशरीरिणां दुष्षमादिषु द्वितीयतृतीयचतुर्थारकेपु, सिद्धिगमनं तु तृतीयचतुर्थयोरेव, उक्तं च
. "दोसुवि समासु जाया सिझंतोस्सप्पिणीए कालतिगे।
तीसु य जाया ओसप्पिणीएँ सिज्झंति कालदुगे ।।" महाविदेहेषु पुनः कालः सर्वदैव सुषमदुष्षमाप्रतिरूपः, ततस्तद्वक्तव्यताभणनेनैव तत्र वक्तव्य भणिता द्रष्टव्या, संहरणमधिकृत्य पुनरुत्सपिण्याभवसप्पिण्यां च षट्स्वप्यरकेषु सिध्यन्तो द्रष्टव्यः, तीर्थकृतां पुनरवसप्पिण्यामुत्सर्पिण्यां च जन्म सिद्धिगमनं च सुषमदुष्षमादुष्षमसुषमारूपयोरेवारकयोर्वेदितव्यं, न शेषेष्वरकेषु, तथाहि-भगवान् ऋषभस्वामी सुषमदुष्पमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत्, वर्द्धमानस्वामी तु दुष्पमसुषमारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु मुक्तिसौधमध्यमध्यास्त, तथा चोक्तम्_ "समणे भगवं महावीरे तीसं वासाइं अगारवासमझे वसित्ता साइरेगाइंदुवालस संवच्छराई छउमत्थपरियागं पाउणित्ता बायालीसं वासाइं सामनपरियागं पाउणित्ता बावत्तरि वासाणि सव्वाउयं पालइत्ता खीणे वेयणिज्जआउयनामगोए दूसमसुसमाए बहुविइक्कंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए जाव सव्वदुक्खप्पहीणे" ___ उत्सपिण्यामपि च प्रथमतीर्थकरो दुष्षमसुषमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जायते, यतो भगवद्वर्द्धमानस्वामिसिद्धिगमनस्य भविष्यन्महापद्मतीर्थकरोत्पादस्य चान्तरंचतुरशीतवर्षसहस्राणि सप्त वर्षाणि पञ्च(च) मासाः पठ्यन्ते, तथा चोक्तम्
"चुलसीइवाससहसा वासा सत्तेव पंच मासा य।
वीरमहापउमाणं अंतरमेयं जिनुद्दिटुं॥" तत उत्सपिण्यामपि प्रथमतीर्थङ्करो यथोक्ताकालमान एव जायते, तथा उत्सणिण्यां चतुविंशतितमः तिर्थकरः सुषमदुष्षमायामेकोननवतिपक्षेषुव्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमे च सिध्यति, तत उत्सप्पिण्यामवसप्पिण्यां वा दुष्षमसुषमासुषमदुष्ष्मयोरेव तीर्थकृतां जन्म निवार्णं चेति २। ___ गतिद्वारे प्रत्युत्पन्ननयमधिकृत्य मनुष्यगतावेव सिध्यन्तः प्राप्यन्ते, नशेषासु गतिषु, पाश्चात्यमनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिध्यन्ति, विशेषचिन्तायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org