________________
मूलं - ८५
सो मनजोगो भण्णइ मन्नइ नेयं जओ तेणं ॥"
ततः सह योगेन वर्त्तन्ते ये ते सयोगाः योगा:-मनोवाक्याः ते यथासम्भवमस्य विद्यन्ते इति सयोगी, सयोगी चासो भवस्थश्च सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानं । तथा योगा अस्य विद्यन्ते इति योगी न योगी अयोगी अयोगी चासो भवस्थश्च अयोगिभवस्थः, शैलेश्यवस्थामुपागत इत्यर्थः, तस्य केवलज्ञानमयोगिभवस्थकेवलज्ञानं ॥
अथ किं तत् सयोगिभवस्थकेवलज्ञानं ?, सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथसमयसयोगिभवस्थकेवलज्ञानम् अप्रथमसमयसयोगिवभवस्थकेवलज्ञानं च, तत्रेह प्रथमसमय: केवलज्ञानोत्पत्तिसमयः, 3 प्रथमसमयः केवलोत्पत्तिसमयादृद्भूर्वं द्वितीयादिकः सर्वोऽपि समयो यावत्सयोगित्वचरमसमयः । अथवेति प्रकारान्तरे, एष एवार्थः समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः, 'चरमसमये 'त्वादि, तत्र चरमसमयः - सयोग्यवस्थान्तिमसयमः, न चरमसमयः अचरमसमय:-सयोग्यवस्थाचरमसमयादर्वाक्तनः सर्वोऽप्याकेवलप्राप्तेः । 'से तमि'त्यादि निगमनं सुगमं ।
अथ किं तद् अयोगि भवस्थकेवलज्ञानं ?, अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथमसमयायोगिभवस्थकेवलज्ञानं अप्रथमसमयायोगिभवस्थकेवलज्ञानं च, अत्र प्रथमसमयोऽयोगित्वोत्पत्तिसमयो वेदितव्यः, शैलेश्यवस्थाप्रतिपत्तिसमय इत्यर्थः, प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावच्छैलेश्यवस्थाचरमसमयः । अथवेति प्रकान्तरे 'चरमसमये 'त्यादि, इह चरमसमयः शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छैलेश्यवस्थाप्रथमसमय: ‘सेत्तं अयोगिभवत्थकेवलज्ञाणं' तदेतदयोगिभवस्थकेवलज्ञानम् ।
मू. (८६ ) से किं तं सिद्धके वलनाणं ?, सिद्धके वलनाणं दुविहं पन्नत्तं, तंजहाअनंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च ।
वृ. अथ किं तत्सिद्धकेवलज्ञानं ?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा - अनन्तरसिद्धकेवलज्ञानं च परम्परसिद्धकेवलज्ञानं च, तत्र न विद्यते अन्तरं समयेन व्यधानं यस्य सोऽनन्तरः सचासौ सिद्धश्चानन्तरसिद्धः, सिद्धत्वप्रथमसमये वर्त्तमान इत्यर्थः, तस्य केवलज्ञानमनन्तरसिद्धकेवलज्ञानं, चशब्दः स्वगतानेक भेदसूचकः, तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमयसिद्धः स परः तस्यापि यः तृतीयसमयसिद्धः स परः एवमन्येऽपि वाच्याः परे च परे चेति वीप्सायां पृषोदरादय इति परम्परशब्दनिष्पत्तिः परम्परे च ते सिद्धाश्च परम्परसिद्धाः, विवक्षितसिद्धत्वप्रथमसमयात्प्राक् द्वितीयादिषु समयेष्वनन्ता अतीताद्धां यावद्वर्त्तमाना इत्यर्थः, तेषां केवलज्ञानं परम्परसिद्धकेवलज्ञानम्, अत्रापि चशब्दः स्वगतानेक भेदसूचकः । इहानन्तरसिद्धाः सत्पद प्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ कला ५ ऽन्तर ६ भावा ७ ल्पबहुत्व ८ रूपैरष्टभिरनुयोगद्वारैः परम्परसिद्धाः सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभावाल्पबहुत्वसन्निकर्षरूपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिताः ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थं लेशतश्चिन्तयामः ।
क्षेत्रादीनि च पञ्चदश द्वाराण्यमुनि
" खेत्ते १ काले २ गइ ३ वेय ४ तित्थ ५ लिंगे ६ चरित ७ बुद्धे ८ य ।
For Private & Personal Use Only
Jain Education International
१०९
www.jainelibrary.org