SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७५ अध्ययनं-२३,[नि. ४५५] मू.(८५३) बारसंगविऊ बुद्धे सीससंघसमाउले। गामानुगामं रीयंते, सेऽवि सावत्थिमागए। मू.(८५४) कुट्ठगं नाम उज्जाणं, तंर्मि नयरमंडले। फासुएसिज्जसंथारे, तत्थ वासमुवागए। वृ.स्पष्टमेव, नवरम् 'अथ' इति वक्तव्यान्तरोपन्यासे 'तेनेव कालेणं'ति तस्मिन्नेव काले, सूत्रत्वात्सप्तम्यर्थे तृतीया, वर्द्धमानो नाम्नाऽभूदिति शेषः, विश्रुतः' विख्यातः, गौतमो नामेति गोत्रनामतोऽन्यथा हि इन्द्रभूत्यभिधान एवासौ, 'बारसंगविउ'त्ति द्वादशाङ्गवित् ‘सेऽवि'त्ति सोऽपि गौतमनामा भगवान् 'तम्मि'न्ति इहापि तस्याः श्रावस्त्या इति सूत्रचतुष्टयार्थः ।। ततः किमजनीत्याहमू. (८५५) केसीकुमारसमणे, गोयमे अ महायसे। उभओऽवि तत्थ विहरीसु, अल्लीणा सुसमाहिया। मू.(८५६) उभओ सीससंघाणं, संजयाणं तविस्सणं। तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं॥ मू. (८५७) केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो?। आयारधम्मप्पणिही, इमा वा सा व केरिसी?॥ मू. (८५८) . चाउज्जामो अतो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुनी॥ मू.(८५९) अचेलगो अ जो धम्मो, जो इमो संतरुतरो। एगकज्जपवन्नाणं, विसेसे किं नु कारणं? ॥ वृ. ततउ 'उभयोवि'त्ति उभावपि केशिगौतमौ 'तत्र' इति श्रावस्त्यां 'विहरिसुत्ति वचनव्यत्ययाद् व्यहार्डी, विहतवन्तावित्यर्थः, 'अल्लीण'त्ति 'आलीनौ' मनोवाक्कायगुप्तावाश्रितौ वा, प्रक्रमात्तस्यामेव पुरि, यद्वा 'अलीनौ' पृथगवस्थानेन परस्परमश्लिष्टौ 'सुसमाहितौ' सुष्ठ ज्ञानादिसमाधिमन्तौ 'उभयोः' द्वयोः तयोरेव केशिगौतमयोः 'शिष्यसङ्घानां' शिष्यसमूहानां 'संयतानां संयमिनां तपस्विनां' विशिष्टतपोऽन्वितानां 'तत्रे'ति तस्यामेव श्रावस्तीपुरि 'चिन्ते'ति वक्ष्यमाणविकल्पा गुणाः-सम्यग्दर्शनादयस्तद्वतां, 'ताइणं'ति प्राग्वत् तायिनां त्रायिणां वा, चिन्तास्वरूपमाह-'कीदृशः ?' किंस्वरूपः 'वा' विकल्पे पुनरर्थे वा 'इमो'त्ति अयम्अस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अय'मिति परिदृश्यमानगणभूच्छिसम्बन्धी 'धम्मो व'त्ति वाशब्दो भिन्नक्रमस्ततश्चायं वा धर्मः कीदृशः?, आचरणमाचारो-वेषधारणादिको बाह्यः क्रियाकलाप इत्यर्थः, स एव सुगतिधारणाद्धर्मः, प्राप्यते हि बाह्यक्रियामात्रादपि नवमग्रैवेयकमितिकृत्वा, तस्य प्रणिधिः-व्यवस्थापनमाचारधर्मप्रणिधिः, इमावि'त्ति प्राकृतत्वादयं वाऽस्मत्सम्बन्धी 'साव'त्ति तत एव स वा द्वितीययतिसत्कः, अयं चाशयः- अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मस्ततिकमस्यैतत्साधनानां च भेद इति तदेतदवबोद्धमिच्छामो वयमिति। उक्तामेव चिन्तामभिव्यक्तीकर्तुमेवाह-'चाउज्जामो य'त्ति चातुर्यामः-महाव्रतचतुष्टयात्मको यो धर्मः 'देशितः' कथितः 'पार्वेन' पार्श्वनाम्ना तीर्थकृतेति सम्बन्धः, जो इमो'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy