________________
७४
उत्तराध्ययन- मूलसूत्रम् - २-२३/८४७ मयोर्भवमित्यर्थे ‘नामधेयेन नामधेयत्वेऽस्ये 'ति वृद्धसञ्ज्ञत्वात्, 'वृद्धाच्छः' इति छप्रत्यये केशिगौतमीयमध्ययनं ' भवति' ज्ञातव्यमिति गाथार्थः ॥ उक्तो नामनिष्पन्ननिक्षेपः, इदानीं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्मू. ( ८४७ ) जिने पासित्ति नामेणं, अरहा लोगपूइए। संवुद्धप्पा य सव्वनू, धम्मतित्थयरे जिने ॥
वृ. 'जिन:' परीषहोपसर्गजेता पार्श्व इति नाम्नाऽभूदिति शेषः, स चान्योऽपि संभवत्यत आह- अर्हति देवेन्द्रादिविहितानि वन्दननमस्करणादीन्यर्हन् तीर्थकृदित्यर्थः, अत एव लोकपूजित: संबुद्ध: - तत्त्वावगमवानात्माऽस्येति संबुद्धात्मा, 'चः पूरणे, स चानुत्पन्न - केवलोऽपि स्यादित्याह-‘सर्वज्ञः ' सकलद्रव्यपर्यायवित्, तथा धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थं धर्मतीर्थं तत्करणशीलो धर्मतीर्थंकर: 'जिनः ' जितसकलकर्मा, भवोपग्राहिकर्मणामपि दग्धज्जुसंस्थानतयैव तेन् व्यवस्थापनात्, मुक्त्यवस्थाऽपेक्षया वा, पठयते च'अरिहा लोयविस्सुए । सव्वन्नू सव्वदंसी य, धम्मतित्थस्स देसए ।' स्पष्टमेवेति सूत्रार्थः ॥ ततः किमित्याह
मू. ( ८४८ )
मू. (८४९)
तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे । ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामानुगामं रीयंते, सेऽवि सावत्थिमागए ॥ तिंदुयं नाम उज्जाणं, तंमि नयरमंडले । फासुएसिज्जसंथारे, तत्थ वासमुवागए ॥
मू. (८५०)
वृ. ‘तस्य' इति पार्श्वनाम्नोऽर्हतो लोके प्रदीप इव प्रदीपस्तद्गतसकलवस्तुप्रकाशकतया लोकप्रदीपस्तस्यासीच्छिव्यो महायशाः 'केशि: ' केशिनामा कुमारश्चासावपरिणीततया श्रमणश्च तपस्विता कुमारश्रवणो विद्याचरणे -ज्ञानचारित्रे तयोः पारगः - पर्यन्तगामी । विद्याचरणपारगः, 'ओहिनाणसुए' त्ति सुब्व्यत्यवादवधिज्ञान श्रुताभ्यां 'मइपुव्वं जेण सुयं' इत्यागमात्मतिपूर्वकतया श्रुतस्य मत्या च 'बुद्ध:' अवगतहेयोपादेयविभागो विशेषाभिधायित्वादस्यापुनरुक्तता, शिष्याणां स्ङ्घः- समूहस्तेन समाकुल:- आकीर्णः परिबृंहित इतियावत् शिष्यसङ्घसमाकुलो ग्रामानुग्रामं पूर्ववत् 'रीयंते' -त्ति 'रीयमाणः ' विहरन् 'श्रावस्तीं' श्रावस्तीनाम्नीं, 'तम्मि'त्ति तस्याः श्रावस्त्याः ‘नगरमण्डले' पुरपरिक्षेपपरिसरे 'प्रासुके' स्वभाविकागन्तुकसत्त्वरहिते, केत्याह, शय्या-वसतिस्तस्यां संस्तारकः- शिलाफलकादिः शय्यासंस्तारकस्तस्मिन् 'तत्रे' ति तिन्दुकोद्याने वासम्,-अवस्थानम् 'उपागतः ' प्राप्तः, शेषं स्पष्टमिति सूत्रत्रयार्थः ।त्
अस्मिश्चान्तरे यदभूत्तदाहमू. (८५१ )
मू. (८५२ )
Jain Education International
अह तेनेव कालेणं, धम्मतित्थयरे जिने । भयवं वद्धमानुत्ति, सव्वलोगंमि विस्सुए । तस्स लोगपईवस्स, आसि सीसे महायसे । भयवं गोयमे नाम, विज्जाचरणपारगे ॥
For Private & Personal Use Only
www.jainelibrary.org