________________
६६
उत्तराध्ययन- मूलसूत्रम् - २ - २२ / ८१२ वृद्धयादयः सर्वौषधयस्ताभिः स्नपितः - अभिषिक्तः, कृतकैतुकमङ्गल इत्यत्र कौतुकानिललाटस्य मुशलस्पर्शनादीनि मङ्गलानि च दध्यक्षतदूर्वाचन्दनादीनि 'दिव्वजुयलपरिहिय'त्ति प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाद् दूष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्ठकम् अतिशयप्रशस्ममतिवृद्धं वा गुणैः पट्टहस्तिनमित्यर्थः, शोभत इति वर्त्तमाननिर्देश: प्राग्वत्, 'चूडामणिः ' शिरोऽ ऽलङ्काररत्नम् ।
'अथ' अनन्तरम् 'उच्छ्रितेन' उपरिधृतेन पाठान्तरतश्च श्वेतोच्छ्रितेन 'चामराहि यत्ति चामराभ्यां च शोभितः ‘दसारचक्केणं' ति दशार्हचक्रेण यदुसमूहेन 'चतुरङ्गिण्या' हस्त्यश्वरथपदातिरूपाङ्गचतुष्टयान्वितया 'रचितया' न्यस्तया 'यथाक्रमं' यथापरिपाटी तूर्याणां मृदङ्गपटहादीनां सन्निनादेनेति-संनहृत इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वनिना 'दिव्येन' इति प्रधानेन देवागमनस्यापि तदा सम्भवाद्देवलोकोद्भवेन वा 'गयणं फुसे 'त्ति आर्षत्वाद्, 'गगनस्पृशा' अतिप्रबलतया नभोऽङ्गणव्यापिना, सर्वत्र च लक्षणे तृतीया, 'एतादृश्या' अनन्तराभिहितरूपया 'ऋद्धया' विभूत्या 'द्युत्या' दीप्त्या, उत्तरत्र चशब्दोऽभिन्नक्रमतो द्युत्या चोत्तमयोपलक्षीतः सन्निजकाद्भुवनात् 'निर्यातः 'निष्क्रान्तः 'वृष्णिपुङ्गवः' यादवप्रधानो भगवानरिष्ठनेमिरितियावत् ।
ततश्चासौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासन्नदेशम्, 'अथ' अनन्तरं स तत्र 'निर्यन्' अधिकं गच्छन् ‘दिस्सं’त्ति दृष्ट्वा अवलोक्य 'प्राणान्' स'प्राणिनः ' मृगलावकादीन् 'भयद्रुतान्' भयत्रस्तान् वाटैरिति-वाटकै: - वृत्तिवरण्डकादिपरिक्षिप्तप्रदेशरूपैः 'पञ्जरेश्च' बन्धनविशेषैः 'सन्निरुद्धान्' गाढनियन्त्रितान्, पाठान्तरतस्तु-बद्धरुद्धान्, अत एव सुदुःखितान्, तथा जीवितस्यान्तो- जीवितानतो मरणभित्यर्थस्तं संप्राप्तानिव संप्राप्तान्, अतिप्रत्यासन्नत्वात्तस्य, यद्वा जीत्रितस्यान्तः-पर्यन्तवर्ती भागस्तमुक्तहेतोः संप्राप्तान् 'मांसार्थ' मांसनिमित्तं च भक्षयितव्यान् मांसस्यैवातिगृद्धिहेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तं, यदिवा 'मांसेनैव मांसमुपचीयते' इति प्रवादतो मांसमुपचितं स्यादिति मांसार्थं भक्षयितव्यानविवेकभिरिति शेषः, 'पासित्त'ति दृष्ट्वा, कोऽर्थः ? - उक्तविशेषणविशिष्टान् हृदि निधाय 'सः' इति भगवानरिष्टनेमिर्महती प्रज्ञाप्रक्रमान्मतिश्रुतावधिज्ञानत्रयात्मिका यस्यासौ महाप्रज्ञः 'सारथिं' प्रवर्त्तयितारं प्रक्रमाद्गन्धहस्तिनो हस्तिपकमितियावत्, यद्वाऽत एव तदा रथारोहणमनुमीयत इति रथप्रवर्तयिताराम् ।
'कस्सट्ठ'त्ति कस्य 'अर्थात् ' निमित्तादिमे प्राणाः, एते सर्वे 'इमे' इत्यनेनैव च गते एते इति पुनरभिधानमतिसार्द्रहृदयतया पुनः पुनस्त एव भगवओ हृदि विपरिवत्तन्त इति ख्यापनार्थं, यदिवा 'इमे' प्रत्यक्षाः 'एते' समीपतरवर्त्तिनः उक्तं हि 'इदमः प्रत्यक्षगतं समीपतरवत्ति चैतदो रूपम्' पठ्यते च-'बहुपाने 'त्ति प्रतीतं, 'सुखैषीण:' साताभिलाषिणः 'सन्निरुद्धे य'त्ति सन्निरुद्धाः 'च' पूरणे 'अच्छिहि'त्ति आसत इति षोडशसूत्रार्थः ॥ एवं च भगवतोक्तेअह सारही तओ भइ, एए भद्दा उ पाणिणो ।
मू. (८१३ )
तुज्झं विवाहकज्जमि, भोआवेडं बहुं जनं ॥
"
वृ. सुगममेव, नवरम् 'अथ' इति भगवद्वचनानन्तरं 'भद्दा उ'त्ति 'भद्रा एव' कल्याणा एव न तु श्वशृगालादय एव कुत्सिताः अनपराधतया वा भद्रा इत्युक्तं भवति, तव 'विवाहकार्ये '
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org