SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६५ अध्ययनं-२२,[नि.४४६ ] नियगाओ भवनाओ, निज्जाओ वहिपुंगवो॥ मू.(८१०) अह सो तत्थ विज्जतो, दिस्स पाने भयहुए। वाडेहिं पंजरेहिं च, संनिरुद्ध सुदुखिए। मू.(८११) जीवियंतं तु संपत्ते, मंसट्ठा भक्खियव्वए। पासित्ता से महापन्ने, सारहिं इणमब्बवी। मू. (८१२) कस्स(अ)ट्ठा इमे पाणा, एए सव्वे सुहेसिणो। वाडेहिं पंजरेहिं च, संनिरुद्धा य अच्छहि? ॥ वृ. सूत्रषोडशकं प्रायः प्रकटार्थमेव, नवरं राजेव राजा तस्य लक्षणानि-चक्रस्वस्तिकांकुशादीनि त्यागसत्यशौर्यादीनि वा तैः संयुतो-युक्तो राजलक्षणसंयुतोऽत एत राजेत्युक्तं, 'भज्जा दुवे आसि'त्ति भार्ये द्वे अभूतां, तासि'न्ति तयो रोहिणीदेवक्योह्रौं पुत्रौ 'इष्टौ' वल्लभौ 'रामकेसवौ' बलभद्रवासुदेवायभूतामितिहापि योज्यते, तत्र रोहिण्या रामो देवक्याश्च केशवः, इह च रथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गेन भगवच्चरितेऽभिधित्सितेऽपि तद्विवाहादिषूपयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानं, तत्सहचरितत्वाच्चा रामस्येतिभावनीयं, पुन: सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम्, इह च राजलक्षणसंयुत इत्यत्र राजलक्षणानि-छत्रचामरसिंहासनादिन्यपि गृह्यन्ते। दमिनः उपशमिनस्तेषामीश्वर:-अत्यन्तोपशमवत्तया नायको दमीश्वर: कौमारएव क्षतमारवीर्यत्वात्तस्य । लक्खणसरसंजुतो'त्ति प्राकृतत्वात्स्वरस्य यानि लक्षणानि-सौन्दर्यगाम्भीर्यादीनि तैः संयुतः स्वरलक्षणसंयुतः, लक्षणोपलक्षितो वा स्वरो लक्षणस्वरः प्राग्वन्मध्यपदलोपी समासः, तेन संयुतो लक्षणस्वरसंयुतः, पठन्ति च-'वंजनस्सरसंजुओ'त्तिव्यञ्जनानि-प्रशस्ततिलकादीनि स्वरो-गाम्भीर्यादिगुणोपेतत्सत्संयुतः 'अष्टसहस्रलक्षणधरः' अष्टोत्तरसहस्रसङ्ख्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारकः 'गौतमः' गौतमसगोत्रः ‘कालकच्छवि:' कृष्णत्वक्। 'झसोदरो'त्ति झषो-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ झषोदरो, मध्यपदलोपी समासः, इतश्च गतेषु द्वारकापुरी यदुषु निहते जरासिन्धनृपतावधिगतभरतार्द्धराज्यः केशवो यौवनस्थेऽरिष्ठनेमिनिसमुद्रविजयादेशतो यदचेष्टत तदाह-'तस्य' अरिष्ठनेमिनो राजीमती भार्यां गन्तुमिति शेषः, याचते केशवस्तज्जनकमिति प्रक्रमः। सा च कीदृशीत्याह-'अथ' इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा-तस्यैव वरकन्या राजवरकन्या सुष्टु शीलं-स्वभावो यस्याः सा सुशीला चारु प्रेक्षितुं-अवलोकितुं शीलमस्या: चारुप्रेक्षिणी, नाधोदृष्टितादिदोषदुष्टा, विज्जुसोयामणिप्पह'त्ति विशेषेण द्योततेदीप्यत इति विद्युत् सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा विद्यदग्निः सौदामिनी च तडित् अन्ये तु सौदामिनी प्रधानमणिरित्याहुः। ___ 'अथ' इति याचाऽनन्तरमाह जनकस्तस्याः-राजीमत्या उग्रसेन इत्युक्तं, 'जा से'त्ति सुब्ब्यत्याद् येन तस्मै ददामि' विवाहविधिनोपढौकयाम्यहम्। एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने च क्रौष्ठिक्यादिष्टे विवाहलग्ने यदभूत्तदाह-सर्वाश्च ता औषधयश्च-जयाविजयद्धि29/5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy