________________
५४
उत्तराध्ययन- मूलसूत्रम् - २ -२० / ७५५ लाभ:- स्वर्गापवर्गाप्राप्तिरूपस्तं मन्यमानो ममायं भविष्यतीति गणयन् 'विनिघातं ' विविधाभिघातरूपम् 'आगच्छति' आयाति स 'चिरमपि' प्रभूतकालमप्यास्तामल्यं नरकगत्वादाविति
भावः ॥
मू. (७५६) विसं तु पीयं जह कालकूडं, हणाइ सत्थ जह कुग्गही अं । एसेव धम्मो विसओववन्नो, हणाइ वेयाल इवाविवन्नो ॥
वृ. इहैव हेतुमाह - विषं पिबन्तीति आर्षत्वात्पीतं यथा 'कालकूटं' कालकूटनामकं 'हणाइ' त्ति हन्ति, चस्य च गम्यमानत्वात्, शस्त्र च, यथा कुत्सितं गृहीतं कृगृहीतम् 'एसेव'त्ति एष एवं विषादिवत् ‘धम्मो 'त्तिधर्मो - यतिधर्मः ' विषयोपपन्नः ' शब्दादिविषययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन, द्रव्ययतिमिति शेषः 'वेताल इवाविवन्न' त्ति अविपन्नः अंप्राप्तविपत् मन्त्रादिभिरनियन्त्रित इत्यर्थः, पठ्यते च- 'वेयाल इवाविबंधणो 'त्ति इह च 'अविबन्धनः ' अविद्यमानमन्त्रादिनियन्त्रणः, उभयत्र साधकमिति गम्यते ॥
मू. (७५७ ) जो लक्खणं सुविण पउंजमाणो, निमित्तकोऊहलसंपगाढे। कुहेडविज्जासवदारजीवी, न गच्छई सरणं तंमि काले ।।
वृ. यो लक्षणं 'सुविनो' त्ति स्वप्नं चोक्तरूपं 'प्रयुञ्जान: ' व्यापारयन् निमित्तं च- - भौमादि कौतुकं च- अपत्याद्यर्थं स्नपनादि तयोः संप्रगाढः - अतिशयासक्तो निमित्तकौतुकसंप्रगाढः 'कुहेडविज्ज' त्ति कुहेटकविद्या-अलीकाश्चर्यविधायिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुतयाऽऽ श्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याऽऽ श्रवद्वारजीवी 'न गच्छति' न प्राप्नोति 'शरणं' त्राणं दुष्कृतरक्षाक्षमं 'तस्मिन्' फलोपभोगोपलक्षिते 'काले' समये ॥ तमंतमेणेव उ से असीले, सया दुही विप्परियासुवेइ । संधावई नरगतिरिक्खजोणी, मोनं विराहित्तु असाहुरूवे ॥
मू. (७५८)
वृ. अमुमेवार्थं भावयितुमाह- 'तमंतमेणेव उ'त्ति अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव 'तु:' पूरणे 'सः' द्रव्ययतिः अशीलः सदा दुःखी विराधनाजनितदुःखेनैव ‘विप्परियासुवेइ’त्ति विपर्यासं तत्त्वादिषु वैपरीत्यम् 'उपैति' उपगच्छति, ततश्च 'संधावति' सततं गच्छति नरकतिर्यग्योनी: 'मौनं' चारित्रं विराध्य 'असाधुरूपं' तत्त्वतोऽयतिस्वभावः सन्, अनेन विराधनाया अनुबन्धवत्फलमुक्तम् ॥
मू. ( ७५९) उद्देसियं कीयगडं नियागं न मुच्चई किंचि अनेसणिज्जं । अग्गीविवा सव्व भक्खी भवित्ता, इओ चुओ गच्छइ कट्ट पावं ॥
वृ. कथं पुनर्मौनं विराध्य कथं वा नारकतिर्यग्गतीः संधावतीत्याह - 'उद्देसिय' मित्यादि, क्रयणंक्रीतं तेन कृतं-निर्वर्त्तितं क्रीतकृतं 'नित्यागं' नित्यपिण्डम् 'अग्गीविव'त्ति अग्निरिव प्राकृतत्वादाकारः सर्वम्-अप्राशुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योग:, 'गच्छति' याति कुगतिमिति शेषः ॥
मू. ( ७६० )
न तं अरीकंठ छित्ता करेइ, जं से करे अप्पणिया दुरप्पा । से नाहिई मच्चुमुहं तु पत्ते, पच्छानुतावेण दयाविहूणो ॥ वृ.यतश्चैवं दुश्चरितैरेव दुर्गतिप्राप्तिरत: 'न' नैव 'तम्' इति प्रस्तावादनर्थं 'कण्ठछत्ता' प्राणहर्ता
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International