________________
अध्ययनं - २०, [ नि. ४२९]
५३
वृ. ‘जो पव्वइत्ताणे'त्यादि सूत्राणि सीदनस्यैवानेकधा स्वरूपानुवादतः फलदर्शकानि 'स्पष्टान्यैव नवरं 'नो स्पृशति' इति नासेवते 'प्रमादात् ' निद्रादेरनिगृहीतः - अविद्यामानविषयनियन्त्रण आत्माऽस्येत्यनिग्रहात्मा, अत एव 'रसेषु' मधुरादिषु 'गृद्धः' गृद्धिमान् बध्यतेऽनेन कर्मेति बन्धनं रागद्वेषात्मक 'से' इति सः ॥
मू. ( ७५२) आउत्तया जस्स य नत्थि कावि, इरियाइ भासाइ तहेसणाए । आयाणनिक्खेवदुगुंछणाए, न वीरजायं अनुजाइ मग्गं ॥
वृ. 'आयुक्तता' दत्तावधानता 'काचिदि' ति स्वल्पाऽपि 'आयाणनिक्खेदुगुंछणाए 'त्ति आदाननिक्षेपयोः - उपकरणग्रहणन्यासयोर्जुगुपसनायाम्, इह चोच्चारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्थापना जुगुप्सनोक्त, स ईदृक् किमित्याह वीरैर्यातो गतो वीरयातस्तम् 'अनुयाति' अनुगच्छति, नेति सम्बन्धः, अल्पसत्त्वतयेति भावः; क ? - 'मार्गं' सम्यग्दर्शनादिकं मुक्तिपथम् ॥
मू. (७५३) चिरंपि से मुंडरई भवित्ता, अथिरव्वए तवनियमेहिं भट्टे । चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए ।
वृ. तथा च 'चिरमपि' प्रभूतकालमपि मुण्ड एव-मुण्डन एव केशापनयनात्मनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि-गृहीतमुक्ततया चलानि व्रतान्यस्येत्यस्थिरव्रतः 'तपोनियमेभ्यः 'उक्तरूपेभ्यः 'भ्रष्टः' च्युतश्चिरमपि 'अप्पाण'त्ति आत्मानं 'क्लेशयित्वा' लोचादिनां बाधयित्वा, आत्मनैवेति गम्यते, न 'पारगः ' पर्यन्तगामी भवति 'हु:' वाक्यालङ्गारे 'संपराए' त्ति सपरायन्ति-भृशं पर्यटन्त्यस्मिन् जन्तव इति सम्परायः - संसारस्तस्य सूत्रे च सुब्व्यत्यायात्सप्तमी ॥ मू. ( ७५४ )
पुल्लेव मुट्ठी जह से असारे, अयंतिते कूडकहावणे य। राढामणी वेरुलियप्पगासे, अमहग्धर होइ हु जाणएसु ॥
वृ. स चैवंविधः पोल्लेत्यन्तः शुषिरा 'एव' इत्यवधारणे तेन पोल्लैव, न मनागपि निविडा 'मुष्टिः' अंगुलिसन्निवेशविशेषात्मिका 'यथा' इति सादृश्ये, पठ्यते वा पोल्लारमुट्ठी जह' तति इहापि 'पोल्लर' त्ति शुषिरा, असारत्वं चोभयोरपि सदर्थशून्यतथा 'अयंतिय'त्ति 'अयन्त्रितः ' अनियमितः कूटकार्षापणवत्, वाशब्दस्येहोपमार्थत्वात्, यथा ह्यसौ न केनचित्कूटतया नियन्त्रते, तथैषोऽपि गुरूणामप्यविनीततयोपेक्षणीत्वात्, 'राढामणि 'त्ति काचमणिर्वैडूर्यवत्प्रकाशतेप्रतिभासत इति वेडूर्यप्रकाशः- वैडूर्यमणिसदृश: 'अमहार्धकः' इत्यमहामूल्यो भवति, 'च: ' समुच्चये भिन्न- क्रमस्ततोऽमहार्धकश्च 'जाणएसु'त्ति ज्ञेषु मुग्धजनविप्रतारकत्वात्तस्य ॥ मू. (७५५) कुसीललिंगं इह धारइत्ता, इसिज्झयं जीबिय बूहइत्ता । असंजए संजय लप्पमाणे, विणिधायमागच्छइ से चिरंपि ॥
वृ. 'कुशीललिङ्ग' पार्श्वस्थादिवेषम् 'इह' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वजं' मुनिचिह्नं रजोहरणादि ‘जीविय’त्ति आर्षत्वाज्जीविकायै 'बृहंयित्वा' असंयमजीवितं जीविकां वानिर्वहणोपायरूपां बृंहयित्वेति- पोषयित्वाऽत एवासंयतः सन् 'संजय लप्पमाणे 'त्ति प्राकृतत्वात्सोपस्करात्वाच्च संयमतमात्मानं लपन्, पठ्यते च- 'संजयलाभमाणे 'त्ति आर्षत्वात् संयत
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org