________________
अध्ययनं-१९,[नि. ४१७]
महब्भयाओ भीमाओ, नरएसुवेइया मए ।। मू. (६८७) जारिसा मानुसेलोए, ताया! दीसंति वेयणा।
इत्तो अनंतगुणिया, नरएसुंदुक्खवेयणा। मू.(६८८) सव्वभवेसु अस्साया, वेयणा वेइया मए।
निमिसंतरमित्तंपि, जं साया नत्थि वेयणा॥ वृ. सूत्राण्येकत्रिंशम् प्रतीतान्येव, नवरं 'तद्' अनन्तरोक्तं 'बिंति'त्ति वचनव्यत्ययात्तरो ब्रूते अम्बापितरौ मृगापुत्र इति प्रक्रमः, 'एव'मिति यथोक्तं भवद्भ्य् तथा 'एतत्' प्रव्रज्यादुष्करत्वं यथास्फुटं' सत्यतामनतिक्रान्तमवितथमिति-यावत्, तथाऽपीहलोके 'निष्पिपासस्य' निःस्पृहस्य, इहलोकशब्देन च 'तात्स्थ्यात्तद्यप्रदेश' इतिकृत्वा ऐहलौकिकाः स्वजनधनसम्बन्धादयो गृह्यन्ते, 'नास्ति' न विद्यते 'किञ्चित्' अतिकष्टमपि शुभानुष्ठानमिति गम्यते, अपि:' संभावने 'दुष्करं' दुरनुष्ठेयं, भोगादिस्पृहायामेवास्य दुष्करत्वादिति भावः ।। __ निःस्पृहताहेतुमाह-'शारीरे'त्यादिना, तत्राप्याद्यसूत्रद्वयेन सामान्येन संसारस्य दुःखरूपत्वमुक्तम्, इह च शरीरमानसयोर्भवाः शारीरमानस्यो वेदना: प्रस्तावादसातरूपाः ‘दुक्खभयाणि य'त्ति दुःखोत्पादकानि राजविड्वरादिजनितानि (भयानि) दुःखभयानि, जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिश्चत्वारो-देवादिभवा अन्ता-अवयवा यस्यासौ चतुरन्तः-संसार: तत्र 'सोढानि' तदुत्थवेद नासहनेनानुभूतानि भीमानि' अतिदुःखजनकत्वेन रौद्राणि ॥ ___ शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढा यथेत्यादिभिः सूत्रैस्तदाह-यथा 'इह' मनुष्यलोकेऽग्निरुष्णोऽनुभूयते अत' इत्येवमनुभूयमानादनन्तगुणः 'तहिं ति तेषु, येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ततश्चोष्णानुभवात्मकत्वेन 'असातः' दुःखरूपा वेदिता मया, पठन्ति च-'इत्तोऽनंतगुणा तहिं'ति अत्र चातः-इहत्याग्नेरनन्तगुणा नरकेषूष्णाच वेदना वेदिता मयेति योज्यम्॥ ___ तथा 'इदं' यदनुभूयते ‘इह' मनुष्यलोके 'शीतं' तच्च माघादिसंभवं हिमकणानुषक्तमात्यन्तिकं परिगृह्यते, इहापि पठन्ति-'एतोऽनंतगुणा तर्हिति प्राग्वत्, 'कंदुकुम्भीषु' पाकभाजनविशेषरूपासु लोहादिमयीषु 'हुताशने' अग्नौ देवमायाकृते, महादवाग्निा संकाश:सदृशोऽतिदाहकतया महादवाग्निसङ्काशस्तस्मिन्, इह चान्यस्य दाहकतरस्यासंभादित्थमुपमाभिधानम्, अन्यथेहत्याग्नेरनन्तगुण एव तत्रोष्णपृथिव्यनुभाव उक्तः, 'मरौ' इति मरुवालुकानिवह इव तात्स्थ्यात्तद्यपदेशसंभवादन्तर्भूतेवार्थत्वाच्चात एव वज्रवालुकानदीसम्बन्धिपुलिनमपि वज्रवालुका तत्र, यद्वा वज्रवद्वालुका यस्मिंस्त (स्मिन् स त) था तस्मिन्नरकप्रदेश इति गम्यते, 'कदम्बवालुकयां च' तथैव कदम्बवालुकानदीपुलिने च महादवाग्निसङ्काश इति योज्यते। 'ऊर्ध्वम्' उपरि वृक्षशाखादौ 'बद्धः' नियन्त्रितो माऽयमितो नहीदित्यबान्धव इति च तत्राशरणतामाह, करपत्रं-प्रतीतं क्रकचमपि तद्विशेष एव 'खेदिय'ति खिन्नं खेदः क्लेशोऽनुभूतः क्षिपितं वा पापमिती गम्यते, 'कड्डोकड्ढाहिं'ति कर्षणापकर्षणैः परमाधार्मिक29/3
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org