SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६ उत्तराध्ययन-मूलसूत्रम्-२-१९/६२४ महार्णव इव महार्णवः-संसारस्तस्माद्, यतश्चैवमतः 'अनुजानीत' अनुमन्यध्वं, मामिति शेषः, 'पव्वइस्सामी'ति प्रव्रजिष्यामि 'अम्मो'त्ति पूज्यतरत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच्च मातुरामन्त्रणं, यो हि भविष्यदुःखं नावैति तत्प्रतिकारहेतुं वा स कदाचिदित्थमेवासीत, अहं तूभयत्रापि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महाव्रतात्मिकां प्रव्रज्यां प्रतिपत्स्य इति सूत्रगर्भार्थः ।। अमुमेवार्थमनुवादतः स्पष्टयितुमाह नियुक्तिकृत्नि.[ ४१७] सो लद्धबोहिलाभो चलणे जनगाण वंदिउं भणइ। वीसज्जिउमिच्छामो काहं समणत्तणं ताया!॥ वृ.'सः' इति मृगापुत्रो लब्धः-प्राप्तो बोधिलाभो-जिनधर्मप्राप्तिरूपो येन स तथा, 'चरणान्' पादान् ‘जनकयोः' मात्रापित्रोर्वन्दित्वा भणति, यथा 'विसर्जयितुम्' मुत्कलयितुं वयमात्मानमिति गम्यते 'इच्छामः' अभिलषामः, किमिति?, यतः 'काहं ति वचनव्यत्ययात्करिष्यामः 'श्रमणत्वं' प्रव्रज्यां 'तात !' इति पितः !, उपलक्षणत्वान्मातश्चेति गाथार्थः । इदानीं तौ कदाचिद्भोगैरुपनिमन्त्रयेयातामित्यभिप्रायतो यत्तेनोक्तं तत्सूत्रकृदाहमू. (६२५) अम्मताय! मए भोगा, भुत्ता विसफलोवमा। पच्छा कड्डयविवागा, अनुबंधदुहावहा। मू. (६२६) इमं सरीरं अनिच्चं, असुई असुइसंभवं। असासयावासमिणं, दुक्खकेसाण भायणं॥ मू. (६२७) असासए सरीरंभि, रइं नोवलभामहं। पच्छा पुरा व चइयव्वे, फेणबुब्बुयसंनिभे ॥ वृ.सूत्रत्रयं प्रतीतार्थमेव, नवरं विषमिति-विषवृक्षस्तस्य फलं विषफलं तदुपमाः, तदुपमत्वमेव भावयितुमाह-पश्चात्कटुक इव कटुकोऽनिष्टत्वेन विपाको येषां ते तथा, आपात एव मधुरा इति भावः, अनुबन्धदुःखावहाः' अनवच्छिनदुःखदायिनः, यथा हि विषफलमास्वाद्यमानमादौ मधुरमुत्तरकालं च कटुकविपाकं सातत्येन च दु:खोपनेतृ एवमेतेऽपीति, किञ्चअमी कामाः स्पर्शप्रधानाः, स्पर्शश्च शरीराश्रयः, तच्चेदंशरीरम् 'अनित्यम्' अशाश्वतम् 'अशुचि' स्वाभाविकशौचरहितम् 'अशुचिसंभवम्' अशुचिरूपशुक्रशोणितोत्पन्नम्, अशाश्वत:-कथञ्चि दवस्थितत्वेऽप्यनित्य आवास:-प्रक्रमाज्जीक्स्यावस्थानं यस्मिन्नित्यशाश्वतावासं, पुनः ‘इदमि'त्यभिधानमतीवासारत्वावेशसूचकं, दुःखम्-असातं तद्धेतवः क्लेशा:-ज्वरादयो रोगा दुःखक्लेशा शाकपार्थिवादिवत्समासस्तेषां 'भाजनं' स्थानं, यतश्चैवमतोऽशाश्वते शरीरे 'रति' चित्तस्वास्थ्यं 'नोपलभे' न प्राप्नोम्यहं, भोगेषु सत्स्वपीति गम्यते, शरीराश्रयत्वात्तेषामिति भावः, शरीराशाश्वतत्वमेवा-पश्चात्पुरा वा त्यक्तव्ये शरीरे इति प्रक्रमः, तद्धि पश्चादिति भुक्तभोगावस्थायां वार्धक्यादौ, पुरा अभुक्तभोगितायां वा बाल्यादौ त्यज्यत इति, यद्वा पश्चादिति-यथास्थित्यायुःक्षयोत्तरकालं पुरा वेत्युपक्रममहेतोर्वर्शताद्यासंकलितजीवितप्रमाणात्प्रागपि त्यक्त्वये' अवश्यत्याज्ये 'फेनबुद्धदसंनिभे' क्षणदृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुक्त्यमिति सूत्रत्रयार्थः ।। एवं भोगनिमन्त्रणपरिहारमभिधाय प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy