________________
अध्ययनं-३६,[ नि. ५५९]
२७३ प्रसिद्धाः 'एवमादयः' इत्येवंप्रकारा येषामिदं साधारणशरीरलक्षणमस्ति, तद्यथा
"चक्कागं भज्जमाणस्स, गंठी चुन्नघनो भवे। पुढवीसरिसेण भेएण, अनंतजीवं वियाणाहि॥१॥
गूढच्छिरागं पत्तं सच्छीरं जं च होइ निच्छीरं ।
जंपि य पणट्ठसंधि, अनंतजीवं वियाणाहि॥२॥" इत्यादि पनका-उल्लिजीवाः, इह च तदुपलक्षिताः सामान्येन वनस्पतयो गृह्यन्ते, तथा चान्ये पठन्ति'वणप्फईण आउंतु'त्ति, प्रत्येकशरीरापेक्षया चोत्कृष्टं दशवर्षसहस्रमानमायुरुक्तं, साधारणानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तायुष्कमानं, उक्तं च-"निओयस्स णं भंते ! केवइयं कालं ठिइपन्नत्ता ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं" कायस्थितः पनकानाम्, इहापि सामान्येन वनस्पतिजीवानाम, अत एवासौ सामान्येन वनस्पतिजीवान्निगोदान् वाऽपेक्ष्योत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षायां हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्येयकालोऽवस्थितिः, यदुक्तम्-"पत्तेयसरीरबादरवनप्फईकाइयाणं भंते ! केवइयं कालं कायठिई पन्नत्ता?, जहन्नेणं अंतोमुहुत्तं उक्कोसेण सत्तरिसागरोवमकोडाकोडीओ निओएणं भंते ! निओदेत्ति कालओ केच्चिरं होइ?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतकालं अनंताओ ओसप्पिणीओ खेत्तओ अड्डाइज्जा पोग्गलपरियट्ठा वा। बायरनिओयपुच्छा, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ।
सुहुमनिगोयपुच्छा, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं"ति । तथाऽसङ्ख्यकालमुत्कृष्टं पनकजीवानामन्तरं, तत उगत्य हि पृथिव्यादिषुत्पत्तव्यं, तेषु चासङ्ख्येयकालैव कायस्थितिरिहापि तथाऽभिधानादिति चतुर्दशसूत्रार्थः ।। प्रकृतमुपसंहरनुत्तरग्रन्थं च सम्बन्धयितुमिदमाहमू.(१५७०) इच्चेए थावरा तिविहा, समासेन वियाहिया।
इत्तो उतसे तिविहे, वुच्छामि अनुपुव्वसो॥ वृ. इति' इत्येवंप्रकाराः 'एते' पृथिव्यादयः स्थानशीला: स्थावराः 'त्रिविधाः' त्रिप्रकाराः, त्रयाणामप्यमीषां स्वयमवस्थितिस्वभावत्वात्, 'समासेन' सङ्केपेण व्याख्याताः, विस्तरतो ह्यमीषां बहुतरा भेदाः । 'अत:' स्थावरविभक्तेरनन्तरं 'तुः' पुनरर्थः त्रसांस्त्रिविदान् वक्ष्यामि 'अनुपुव्वसो'त्ति आनुपयेति सूत्रार्थः॥ मू.(१५७१) तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा।
तच्चेए तसा तिविहा, तेसिं भेए सुणेह मे॥ वृ.'तेउ'त्ति तेजोयोगात्तेजांसि-आ[त्रा]ग्नयस्तद्वतिनो जीवा अपि तथोक्ताः, एवं 'वाऊ'त्ति वान्तीति वायवो-वातास्ते च बोद्धव्याः, ओराल'त्ति 'उदाराः' एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादय इतियावत् 'चः समुच्चये त्रसाः 'तथे'ति तेनागमोक्तेन प्रकारेण, उपसंहारमाह'इती'त्यनन्तरोक्तास्त्रस्यन्ति-चलन्ति देशाद्देशान्तरंसंक्रामन्तीति त्रसाः 'त्रिविधाः' त्रिप्रकाराः, तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं, द्विधा हि तत्-गतितो 129/18
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org