________________
उत्तराध्ययन- मूलसूत्रम् - २-३६ / १५४१ एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया ।।
वृ. एते स्वरपृथिव्यास्तदविभागाच्च तत्स्थजीवानां भेदाः पट्त्रिंशदाख्याताः, 'एगविहमनाणत्त' त्ति आर्पत्वादेकविधाः किमित्येवंविधाः ? - यतोऽविद्यमानं नानात्वं-नानामावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तत्रे'त्ति तेषु सूक्ष्मबादरपृथिवीजीवेषु मध्ये व्याख्याता इति सूत्रार्थः ॥ एतानेव क्षेत्रत आह
२७०
मू. (१५४२ / १ )
सुहुमा य सव्वलोगंमि, लोगदसे य. बायरा ।
वृ. सूक्ष्मा: 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात्, लोकस्य देशो - विभागो लोकदेशस्तस्मिन् 'चः' पुनरर्थे बादरास्तेषां क्वचित्कदाचिदसत्त्वेन सकलव्याप्त्यसम्भवात् ॥ अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाह
मू. ( १५४२ / २ ) एत्तो कालविभागं तु, तेसिं वुच्छ चउव्विहं ॥ वृ. प्राग्वदिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह-
मू. ( १५४३ )
मू. ( १५४४ )
संतइं पप्पऽणाईया, अपज्जवसिया वि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ बावीससहस्साई, वासानुक्कोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्निया ॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कार्यठिई पुढवीणं, तं कायं तु अमुंचओ ॥
मू. (१५४५)
मू. ( १५४६ )
अनंतकालमुक्कोसं, अंतोमुहुत्त जहन्नयं । विजढंमि सए काए, पुढविजीवाण अंतरं ॥
1
वृ. 'सन्ततिं' प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थितिं' भवस्थितिरूपां 'श्रतीत्य' आश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा चैततथाऽऽह- द्वाविंशतिसहस्राणि वर्षाणाम् 'उक्कोसिय'त्ति उत्कृष्टा भवेत्, काऽसौ ? इत्याह- आयुः - जीवितं तस्य स्थिति :- अवस्थानमायुःस्थिति: 'पृथिवीना'मिति पृथिवीजीवानामन्तर्मुहूर्त्तं जघन्यिका, असङ्ख्यकालमुत्कृष्टा अन्तर्मुहूर्त्तं जघन्यिका, काऽसौ ? - काय इति पृथिवीकायस्तस्मिन् स्थितिः- ततोऽनुद्वर्त्तनेनावस्थानं कायस्थितिः ‘पृथिवीनां' पृथ्वीजीवानां 'तम्' इति पृथ्वीरूपं 'कार्य' निकायं 'तुः' अवधारणे भिन्नक्रमश्च तत: 'अमुंचतो 'त्ति 'अमुञ्चतामेव' अत्यजताम्, इत्थं द्विविधाया अपि स्थिनेनैयत्यदर्शनेन सादिसपर्यवसितत्वमेषां, सामर्थ्यकालस्य प्रक्रान्तत्वादन्तरकालमाहअनंतकालमुत्कृष्टमन्तर्मुहूर्त्तं जघन्यकं 'विजढंमि' त्ति त्येक्ते 'स्वके' स्वकीये 'काये' निकाये पृथ्वीजीवानामन्तरं, किमुक्तं भवति ? - यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति सूत्रचतुष्टयार्थः ॥ एतानेव भावत आह
मू. ( १५४७ )
एएसिं वण्णओ चेव, गंधओ रसफ़ासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥
वृ. नवरं वर्णादीनां भावरूपत्वात्तेषां च संङ्ख्याभेदेनाभिधीयमानत्वादस्य भावाभिधायिता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org