SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-३५, [ नि. ५५१] २४७ वाञ्छोत्तरोत्तरवस्तुविषयत्वेन भावनीया, पिण्ड्यत इति पिण्डो भिक्षा तस्य पातः पतनं प्रक्रमात्यात्रेऽस्मिन्निति पिण्डपातं-भिक्षाऽटनं तत् 'चरेत्' आसेवेत 'मुनिः' इति तपस्वी, पाठान्तरतश्च पिण्डस्त पात: पिण्डपातस्तं गवेषयेत्, उभयत्र च वाक्यान्तरविषयत्वादपोनरुक्त्यम्। इत्थं च पिण्डगवाप्य यथा भुञ्जीत तथाऽऽह-'अलोल:' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' स्निग्धमधुरादौ 'गृद्धः' प्राप्तावभिकाङ्क्षावान्, कथं चैवंविधः ?, यतः 'जिब्भादंते'त्ति प्राकृतत्वाद्दान्ता-वशीकृता जिह्वा--रसना येनासौदाग्तजिह्वोऽत एव 'अमूर्छितः' संनिधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन, उक्तं हि- "नो वामाओ हणुयातो दाहिणं, दाहिणाओ वा वामं चालेइ" एवंविदश्च सन् 'न' नैव रसठ्ठाए'त्ति रसार्थं सरसमिदमहमास्वादयामीति धातुविशेपो वा रसः सचाशेषधातपलक्षणं ततस्तुदपचयः स्यादित्येतदर्थं न भुंजीत' नाभ्यवहरेत, किमर्थं त_त्याह-यापना-निर्वाहः स चार्थात्संयमस्य तदर्थं 'महामुनिः' प्रधानतपस्वी, अनेन पिण्डविशुद्धिरुक्ता। तदेवमादौ मूलगुणान् विधेयतयाऽभिधाय तत्परिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति तदवस्थित एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि प्रार्थयेदिति तनिषेधार्थमाह-'अर्चनां' पुष्पादिभिः पूजां 'रचना' निपद्यादिविषयां स्वस्तिकादिन्यासात्मिकां वा 'चः' समुच्चये 'एवः' अवधारणे नेत्यनैन संभन्त्स्यते 'वन्दनं' नमस्तुभ्यमित्यादि वाचा:भिष्टवनं 'पूजनं' विशिष्टवस्त्रादिभिः प्रतिलाभनं 'तथे'ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पदामोपध्यादिरूपा वा सत्कारश्च-अर्धप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽप्यास्तां वाचा नैव 'प्रार्थयेत्' ममेदं स्यादित्यभिलषेत्। किं पुनः कुर्याद्रित्याह-'शुक्लध्यानम्' उक्तरूपं यथा भवत्येवं 'ध्यायेत्' चिन्तयेत् 'अनिदानः' अविद्यमाननिदानोऽकिञ्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः कायः-शरीरं येन स तथा विदरेदप्रतिबद्धविहारितयेति गम्यते ‘यावदि'ति मर्यादायां 'कालस्य' इति मृत्योः 'पज्जयत्ति' 'पर्याय:' परिपाटी प्रस्ताव इतियावत्, यावन्मरणसमयः क्रमप्राप्तो भवतीति । __ एवंविधानगारगुणस्थश्च यावदायुधिहत्य मृत्युसमये यत्कृत्वायत्फलमवाप्नोति तदाह'निज्जूहिऊण'त्ति परित्वज्य आहारम्' अशनादि, तत्परित्यागश्च संलेखनाक्रमेणैव, झगिति तत्करणे बहुतरदोषसम्भवात्, तथा चागमः "देहम्मि असंलिहिए सहसा झाऊहि खिज्जमाणाहिं। जायइ अट्टज्झाणं सरीरिणो चरमकालंमि॥ कदा?-'कालधर्मे' आयुःक्षयलक्षणे मृत्युस्वभावे 'उपस्थिते' प्रत्यासन्नीभूते, तथा 'त्यक्त्वा' अपहाय'मानुसं'ति मानुषीं-मनुष्यसम्बन्धिनीं 'बुन्दि' शरीरं 'प्रभुः' वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् ‘दुक्खे'त्ति 'दुःखैः' शारीरमानसैः 'विमुच्यते' विशेषेण त्यज्यते, तन्निबन्धनकर्मापगमत इति भावः । ___ कीदृशः सन् ? इत्याह-'निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याद्यहङ्काररहितः, ईदृशः कुतः?, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रवः' कर्माश्रवरहितो मिथ्यात्वादितद्धत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वतं' कदाचिदव्यवच्छेदात 'परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्र www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy