________________
मू. ( १४६३ )
उत्तराध्ययन- मूलसूत्रम् - २-३५ / १४६३ निज्जूहिऊणं आहार, कालधम्मे उवट्ठिए । चइऊण मानुसं बुदि, पहू दुक्खा विमुच्चई ॥ निम्ममो निरहंकारो, वीयराओ अनासवो । संपत्तो केवलं नाणं, सासयं परिनिव्वुडे ॥ त्तिबेमि ॥
मू. ( १४६४ )
वृ.‘गृहवासं' गृहावस्थानं यदिवा गृहमेव वा पारवश्यहेतुतया पाशो गृहपाशस्तं 'परित्यज्य' परिहृत्य 'प्रव्रज्यां' सर्वसङ्गपरित्यागलक्षणां भागवतीं दीक्षाम् 'आश्रितः ' प्रतिपन्नो मुनिः 'इमान्' प्रतिप्राणि प्रतीततया प्रत्यक्षान् 'सङ्गान्' पुत्रकलत्रादींस्तत्प्रतिबन्धान् वा 'विजानीयात् ' भवहेतवोऽमीति विशेषणावबुध्येत निश्चयतो निष्लस्यासत्त्वाज्ज्ञानस्य च विरतिफलत्वात्प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्पत्तिमाह- 'जेहिं 'ति सुब्व्यत्ययात् येषु 'सज्यन्ते प्रतिबध्यन्ते, अथवा यैः सङ्गैः 'सज्यन्ते' संबध्यन्ते ज्ञानावरणादिकर्मणेति गम्यते, के ते ? - 'मानवाः' मनुष्या उपलक्षणत्वादन्येऽपि जन्तवः ।
'तथा' इति समुच्चये 'एवे 'ति पूरणे 'हिंसां' प्राणव्यपरोपणम् 'अलीकम्' अनृतभाषणं ‘चौर्यम्' अदत्तादानम्‘अब्रह्मसेवनं' मैथुनाचरणमिच्छारूप: काम इच्छाकामस्तं वा - अप्राप्तवस्तुकाङ्क्षारूपं ‘लोहं च' लब्धवस्तुविषयगृद्धात्मकम्, अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च ‘संयत:' यति: 'परिवर्जयेत्' परिहरेत् । अनेन मूलगुणा उक्ताः, एतद्यवस्थितस्यापि च शरीरिणोऽवश्यमाश्रयाहाराभ्यां प्रयोजनं, तयोश्च तदतीचारहेतुत्वमपि कदाचित्स्यादिति मन्वानस्तत्परिहाराय सूत्रषट्केन तावदाश्रयचिन्तां प्रति यतते - 'मनोहरं' चित्ताक्षेपकं, किं तत् ? -चित्रप्रधानं गृहं चित्रगृहं, तदपि कीदृशं ? - माल्यैः -ग्रन्थितपुष्पैर्धूपनैश्च-कालागुरुतुरुकादिसम्बन्धिभिर्वासितं - सुरभीकृतं माल्यधूपनवासितं, सह कपाटेन प्रतीतेन वर्त्तत इति सकपाटं तदपि 'पाण्डुरोल्लोचं' श्वेतवस्त्रविभूषितं मनसाऽप्यास्तां वचसा 'न प्रार्थयेत्' नाभिलपेत्, किं पुनस्तत्र तिष्ठेदिति भावः ।
किं पुनरेवमुपदिश्यते ? इत्याह- 'इन्द्रियाणि' चक्षुरादीनि 'तुः' इति यस्मात् 'भिक्षोः ' अनगारस्य ' तादृशे' तथाभूते 'उपाश्रये' आश्रये दुःखेन क्रियन्तेकरोतेः सर्वधात्वर्थत्वाच्छक्यन्ते दुष्कराणि - दुःशकानीत्यर्थः 'तुः' एवकारार्थो दुष्कराण्येव ' धारयितुम्' उन्मार्गप्रवृत्तिनिषेधतो मार्ग एव व्यवस्थापयितुं, पठ्यते दुष्कराणि 'निवारेतुं 'ति, तत्रापि 'निवारयितुम्' इति नियन्त्रितुं स्वस्वविषयप्रवृत्तेरिति गम्यते, कीदृशि ? - काम्यमानत्वात्कामा - मनोज्ञा इन्द्रियविषयास्तेषु -अभिष्वङ्गस्तस्य विवर्द्धने विशेषेण वृद्धिहेतौ कामरागविवर्द्धने, तथा च तथाविधचित्तव्याक्षेपसम्भवात्कस्यचिन्मूलगुणस्य कथञ्चिदतीचारसम्भवो दोष इत्येवमुपदिश्यत इति भावः । एवं तर्हि क् कीदृश स्थातव्यमित्याह - ' श्मशाने' प्रेतभूमौ 'शून्यागारे' उद्वसितगृहे 'वा' विकल्पे 'वृक्षमूले वा' पादपसमीपे 'एकदा' इत्येकस्मिंस्तथाविधाकाले, पठ्यते च- 'एक्कतो'त्ति 'एकक : ' रागद्वेषवियुतोऽसहायो वा तथाविधयोग्यतया 'पराक्ये' परसम्बन्धिनि तथाविधप्रतिबन्धेनास्वीकृते पाठान्तरत: 'पतिरिक्के' देशी भाषया 'एकान्ते' स्याद्यसङ्कुले 'परकृते' परैःअन्यैर्निष्पादिते स्वार्थमिति गम्यते 'वा' समुच्चये 'वासम् ' अवस्थानं 'तत्र' श्मशानादौ 'अभिरोच्येत्' प्रतिभासवेदर्थादात्मने भिक्षुरित्युत्तरेइण योगः ।
Jain Education International
For Private & Personal Use Only
२४४
राग:
www.jainelibrary.org