________________
२०६
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२६६ आयुः 'खंदति' आर्षत्वात्, ‘क्षोदयन्ति' विनाशयन्ति विपच्यमानानि, 'एतदुपमाः' किम्पाकफलतुल्याः कामगुणाः 'विपाके' फलप्रदानकाले, किमुक्तं भवति?-यथा किम्पाकफलान्युपभुज्यमानानि मनोरमाणि विपाकावस्थायां तु सोपक्रमायुषां मरणहेतुतयाऽतिदारुणानि, एवं कामगुणा अपि उपभुज्यमाना मनोरमा विपाकावस्थायां तु नरकादिदुर्गतिदुःखदायितयाऽत्यन्तदारुणा एव, ततः सुखरूपतया प्रतिभासनं सुखहेतुत्वेऽनैकान्तिकमेव, किम्पाकफलानां मनोरमत्वेन सुखप्रतिभासेऽप्यन्यथाभावादिति सूत्रैकादशकार्थः॥
इत्थं बहुतरगुणस्थानानुयायित्वेन रागस्य प्राधान्यत्केवलस्यैवोद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमभिधित्सुर्दमितेन्द्रियत्वं च सिंहावलोकितन्यायाश्रयणेन व्याचिख्यासुरिदमाहमू. (१२६७) जे इंदियाणं विसया मणुना, न तेसु भावं निसिरे कयाई।
न यामणुन्नेसु मनपि कुज्जा, समाहिकामे समणे तवस्सी॥ वृ.ये 'इन्द्रियाणां' चक्षुरादीनां 'विषयाः' रूपादयः 'मनोज्ञाः' मनोरमाः न तेषु' विषयेषु 'भावम्' अभिसन्धिम्, अपेर्गम्यमानत्वाद्भावमपि प्रस्तावादिन्द्रियाणि प्रवर्त्तयितुं, किं पुनस्तत्प्रवर्तनमित्यपिशब्दार्थः, 'निसृजेत्' कुर्यात् 'कदाचित्' कस्मिंश्चित्काले, 'न च' नैव 'अमनोज्ञेषु' अमनोरमेषु 'मनोऽपि' चित्तमपि, अत्रापीन्द्रियाणि प्रवर्त्तयितुम् अपिशब्दार्थश्च प्राग्वत् 'कुर्यात्' विदध्यात्, अनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः-चित्तेकाग्र्यं स च रागद्वेषाभाव एवेति स एवानेनोपलक्ष्यते, ततस्तत्कामो-रागद्वोषोद्धरणाभिलाषी श्रमणस्तपस्वीति च प्रागव्त्, नन्वेवमुभयोद्धरणहेतुत्वेनेन्द्रियदमस्य किमिति रागोद्धरणहेतुष्वभिधानम्,?, उच्यते, हेतुप्रक्रमात्, न चोभयोद्धरणहेतुतयैकोद्धरणहेतुता विरुध्ये, यदिवा तत्रापि रागस्य द्वेषोपलक्षणत्वादुभयोद्धरणोपायतैव विवक्षिता, किन्तु एव दर्पतो द्वेषसम्भवादवमाशनत्वस्याप्यसौ भावनीयेत्यलं प्रसङ्गेनेति सूत्रार्थः॥
इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम्, अधुना त्वेतेषु तत्प्रवर्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाहमू. (१२६८) चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुनमाहु।
तंदोसहेउं अमणुनमाहु, समो अ जो तसु स वीयरागो। मू.(१२६९) रूवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति।
रागस्स हेउंसमणुनमाहु, दोसस्स हेउ अमणुत्रमाहु॥ मू.(१२७०) रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ सो विनासं।
रागाउरे से जहवा पयंगे, आलोअलोले समुवेइ मच्चुं । मू.(१२७१)जे यावि दोसं समुवेइ तिब्वं, तंसि क्खणे से उ उवेइ दुक्खं।
दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से। मू. ( १२७२) एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेन मुनी विरागे। मू.(१२७३) रूवानुगासानुगए य जीवे, चराचरेहिं सयणेगरूवे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org