________________
२०४
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२६६ तदुदीरकत्वाद् अतश्चायं न ब्रह्मचारिणः 'हिताय' हितनिमित्तं, ब्रह्मचर्यविघातकत्वेन कस्यचिद् अतिसुस्थिस्यापि, तदनेन प्रक्रमाभोजनस्य काक्वा परिहार्यत्वुक्तम् ।।
इत्थं रागमुद्धर्तुकामेन यत्परिहर्त्तव्यं तदभिधाय यदतियत्नेन कर्त्तव्यं तदाह-विविक्तास्त्र्यादिविकला शय्या-वसतिस्यस्यामासनम्-अवस्थानं तेन यन्त्रिता-नियन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषाम् 'अवमाशनानाम्' न्यूनभोजनानां, पठन्ति च-'ओमासणाए'त्ति अवमंन्यूनमशनम्-आहारो येषां तेऽमि अवमाशनास्तभावोऽवमाशनता-अवमौदर्यरूपा तथा दमितानि-वशीकृतानि इन्द्रियाणि यैस्ते तथा तेषां दमितेन्द्रियाणां, पठ्यते च-'ओमासणाईदमिइंदियाणं'ति, अवममशनं यत्र तपसि तदवमशानं तदादिभिस्तपोभेदैर्दमितानीन्द्रियाणियैस्ते तथा तेषां, 'न' नैव रागः शत्रुरिवाभिमवहेतुतया रागशत्रुः ‘धर्षयति' पराभवति, किं तत्?-चित्तं, किन्तु स एवेत्थं पराधृष्यत इति भावः, क इव?-'पराजितः' पराभूतः 'व्याधिरिव' कुष्टादिः 'औपधैः' गडूच्यादिभिर्दीहमिति गम्यते, अनेनापि विविक्तशय्यासनादीनां काक्वा विधेयत्वमुक्तम्, इदानीं तु विवक्तशयनासने यत्नाधानाय विपर्यये दोषमाह-यथा बिडालामार्जारास्तेषामावसथ:-आश्रयो बिडालावसथस्तस्य 'मूले' समीपे न मूषकाणां वसतिः 'प्रशस्ता' शोभना, अवश्यं तत्र तदपायसम्भवात्, एवमेव स्त्रीणां-युवतीनां पण्डकाद्पलक्षणमेतत् निलयोनिवासः स्त्रीनिलयस्तस्य 'मध्ये' अन्तर्नब्रह्मचारिणः 'क्षमः' युक्तः, कोऽसौ ?निवास:वसतिः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः । विवक्तशय्यावस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानता लावण्यं-नयनमनसामाह्लादको गुणो विलासाविशिष्टनेपथ्यरचनादयो हासः-कपोलविकासादिरेषां समाहारे रूपलावण्यविलासहासं न जल्पितं-मन्मनोल्लापादि 'इंगिय'त्ति बिन्दुलोपाद् 'इङ्गितम्' अङ्गभङ्गादि 'वीक्षितं' कटाक्षवीक्षितादि 'वा' समुच्चये स्त्रीणां सम्बन्धि 'चित्तंसि'त्ति 'चित्ते' मनसि 'निवेश्य' अहो! सुन्दरमिदं चेति विकल्पतः स्थापयित्वा 'द्रष्टुं' इन्द्रियविषयतयां नेतुं 'व्यवस्येत्' अध्यवस्येत श्रमणस्तपस्वीति प्राग्वत, चित्ते निवेश्येत्यनेन च रागाद्यभिसन्धिं विनैतदर्शनमपि न दोषायेति ख्याप्यते, उक्तं हि-'न सकं रूवमटुं' इत्यादि, निवेश्येति च समानकालत्वेऽपि कत्वाप्रत्ययः अक्षिणी निमील्य हसतीत्यादिवत्।
किमित्येवमुपदिश्यते इत्याह-'अदर्शनम्' इन्द्रियाविषयीकरणं 'चः' समुच्चये 'एव:' अवधारणेऽदर्शनमेव च 'अप्रार्थनं च' अनभिलषणम् 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनंच' असंशब्दनं, तच्च नामतो गुणतो वा स्त्रीजनस्यार्यध्यान-धादि तस्य योग्यंतद्धेतुत्वेनोचितमार्यध्यान योग्यं हितं' पथ्यं 'सदा' सर्वकालं ब्रह्मव्रते पाठान्तरतो ब्रह्मचर्ये 'रतानाम्' आसक्तानां, ततः स्थितमेतत्-स्त्रीणां रूपादि मनसि निवेश्य द्रष्टुं व्यवस्येत् ।। ननु 'विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः' तत्किमिति रागमुद्धर्तुकामेना विविक्तशयनासनताविधेयेत्युच्यते? इत्याशङ्कयाह-'कामंतु'त्ति अनुमतमेवैतद् यदुत देवीहिवि'त्ति देवीभिरपि' अप्पसभिरप्यास्तां मानुषीभिरत्यपिशब्दार्थः 'भूषिताभिः' अलंकृताभिः 'न' नैव चाइय'त्ति शकिताः क्षोभयितुं' चालयितुं संयमादिति गम्यते 'तिसृभिः' मनोगुप्त्यादिगुप्तिभिर्गुप्ताः अर्थान्मुनयः 'तथाऽपि' यदप्येवंविधाश्चालयितुं न शक्यन्ते तदप्येकान्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org