________________
२०३
अध्ययनं-३२,[ नि.५३०]
इत्थीजनस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं॥ । मू.(१२६२) कामं तु देवीहिं विभूसियाई, न चाइया खोभइउंतिगुत्ता।
तहावि एगंतहियंति नच्चा, विवित्तवासो मुनिनं पसत्थो ।। मू.(१२६३)मुक्खाभिकखिस्सवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे।
नेयारिसंदुत्तमत्थि लोए, जहत्थिओ बालमनोहराओ। मू.(१२६४) एएय संगा समइक्कमित्ता, सुहत्तरा चेव हवंति सेसा।
जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ मू. (१२६५)कामाणुगिद्धिप्पभवं खु दुक्खं, सव्वस्स लोगस्स सदेवगस्स।
- जंकाइयं माणसियं च किं चि, तस्संतयं गच्छइ वीयरागो। मू.(१२६६ ) जहा य किंपागफला मनोरमा, रसेन वनेण य भुज्जमाणा।
ते खुद्दए जीविय पच्चमाणा, एओवमा कामगुणा विवागे। वृ.रसेत्यादि सूत्रैकादशकम्। 'रसा:' क्षीरादिविकृतयः 'प्रकामम्' अत्यर्थं न निषेवितव्याः' नोपभोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि निषेवितव्या एव, निष्कारणनिषेवणस्य तु निषेध इति ख्यापनार्थम्, उक्तं च
"अच्चाहारो न सहे अतिनिद्रेण विसया उदिज्जंति। . जायामायाहारो तंपि पगामं न भुंजामि॥" . किमित्येवमुपदिश्यते इत्याह-'प्रायः' बाहुल्येन रसा निषेव्यमाणा इति गम्यते, दृप्तिःधातूद्रेकस्तत्करणशीला दृप्तिकरा दृप्तकरा वा पाठान्तरतः इह च भावे क्तप्रत्यय इति दृप्तं दर्प उच्यते, दृश्यन्त एव हि कुर्वन्तो दृप्तत्वममी प्राणिनामिति, यदिवा दीप्तं दीपनं मोहानलज्वलनमित्यर्थस्तत्करणशीला दीप्तकराः, केषां? -नराणामुपलक्षणत्वास्त्रयादीनां च, उदीरयन्ति हि ते उपभुक्तास्तेषां मोहानलमिति, उक्तं हि
"विगई परिणईधम्मो मोहो जमुदिज्जए उदिन्ने य। ..
सुट्ठवि चित्तजयपरो कहं अकज्जे न वट्टिहिई ? ॥" एवं च को दोष इत्याह-दप्तं यदिवा दीप्तं नरमिति प्रक्रमः 'चः' पुनरर्थे जातिविवक्षया च बहुवचनप्रक्रमेऽप्येकवचनं, 'कामाः' विषयाः 'समभिद्रवन्ति' अभिभवन्ति, तथाविधस्य त्याद्यभिलषणीयत्वात्सुखाभिभवनीयत्वाच्चेति भावः, कमिवक इवेत्याह-'द्रुमं' वृक्षं 'यथे' त्यौपम्ये, 'स्वादुफलं' मधुरफालन्वितं 'च' इति भिन्नक्रमः, ततश्च 'पक्खि'त्ति पक्षिण इव, इह च द्रुमोपमः पुरुषादि: स्वादुफलतातुल्यं च दृप्तत्वं दीप्तत्वं वा पक्षिसदृशाश्च कामा इति । __ अनेन रसप्रकामभोजने दोष उक्तः, सम्प्रति सामान्येनैव प्रक्रामभोजने दोषमाह-यथा 'दवाग्निः' दावानलः प्रचुरेन्धने 'वने' अरण्ये, एतदुपादानं च वसति (तिमिति) कश्चिद्विध्याकोऽपि स्यादिति, 'समारुतः' सवायुः 'नोपसम'न्ति न 'उपशमं' विध्यापनाम् 'उपैति' प्राप्नोति, एवम्' इति दवाग्निवन्नोपशमभाग भवति इंदियग्गि'त्ति इन्द्रियशब्देनेन्द्रियजनितो राग एवोक्तः, तस्यैवानर्थहेतुत्वेनेह चिन्त्यमानत्वात्, सोऽग्निरिव धर्मवनदाहकत्वाद् इन्द्रियाग्निः, सोऽपि प्रकामभोजिनः' अतिमात्राहारस्य, प्रकामभोजनस्यैव पवनप्रायत्वेनातीव Jain Education International
For Private & Personal Use Only
www.jainelibrary.org