________________
१६०
उत्तराध्ययन-मूलसूत्रम्-२-२९/११३५ सम्भवात्, उक्तं हि-"सिय तिभागे सिय तिभागतिभागे" इत्यादि, ततस्तस्य कादाचित्कत्वेन विवक्षितत्वात्तद्वतश्च कस्यचिन्मुक्तिप्राप्तुस्तद्बन्धानभिधानमिति भावः, अपरं च 'असातवेदनीयं' शारीरादिदुःखहेतुं कर्मचशब्दादन्याश्चाशुभप्रकृतिः 'नो' नैव भूयोभूयः 'उपचिनोति' बन्धाति, भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतगुणस्थानवतितायां तबन्धस्यापि सम्भवात्, अन्ये त्वेवं पठन्ति-'सायावेयनिजं च णं कम्मं भुज्जो भुज्जो उवचिणाति' इह च शुभप्रकृतिसमुच्चयार्थश्चशब्दः, शेषं स्पष्टम्, ‘अनादिकम्' आदेरसम्भवात्, ‘च:' समुच्चयार्थो योक्ष्यते 'अनवयग्ग'न्ति अनवदत्-अनपगच्छत् 'अग्रं' परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्वेन सोऽयमनवदग्रोऽनन्त इत्यर्थस्तं, प्रवाहापेक्षं चैतत्, अत एव 'दीहमद्धं ति मकारोऽलाक्षणिकः 'दीर्घाद्धं' दीर्घकालं दीर्घो वाऽध्वा-तत्परिभ्रमणहेतुः कर्मरूपो मार्गो यस्मिस्तत्तथा, चत्वार:-चतुर्गतिलक्षणा अन्ताः-अवयवा यस्मिस्तच्चतुरन्तं संसारकान्तारंक्षिप्रमेवशीघ्रमेव 'वीतीवति'त्ति 'व्यतिव्रजति' विशेषेणातिक्रामति, किमुक्तं भवति?-मुक्तिवाप्नोति।
मू. (११३६) धम्मकहाए णं भंते ! जीवे किं जणेइ?, २ निज्जरं जणेइ, धम्मकहाए णं पवयणं पभावेइ, पवयणपभावएणं जीवे आगमिसस्सभद्दत्ताए कम्मं निबंधइ॥
वृ. एवमभ्यस्तश्रुतेन च धर्मकथाऽपि विधेयेति तामाह-'धर्मकथया' व्याख्यानरूपया निर्जरां जनयति, पाठान्तरश्च प्रवचनं 'प्रभावयति' प्रकाशयति, उक्तं च
"पावयणी धम्मकही वादी नेमित्तिओ तवस्सी य।
विज्जा सिद्धो य कवी अद्वैव पभावगा भणिया।" । 'आगमिसस्सभद्दताए'त्ति सूत्रत्वादागमिष्यदिति-आगामिकालभावि भद्रं-कल्याणं यस्मिंस्तथा तस्य भावस्तत्ता तया, यदिवाऽऽगमिष्यतीत्यागमः-आगामी कालस्तस्मिन् शश्चद्भद्रतया-अनवरतकल्याणतयोपलक्षितं कर्म निबन्धाति, शुभानुबन्धि शुभमुपार्जयतीति भावः।
मू.(११३७) सुयस्स आराहणयाए णं भंते ! जीवे किं जणेइ ?, २ अन्नाणं खवेइ, न य संकिलिस्सइ॥
वृ.इत्थं च पञ्चविधस्वाध्यायरतेन श्रुतमाराधितं भवतीति तदाराधनोच्यते-श्रुतस्य ‘आराधनया' सम्यगासेवनया 'अज्ञानम्' अनवबोधं 'क्षपयति' अपनयति, विशिष्टतत्त्वावबोधावाप्तेः, 'न च संक्लिश्यते' नैव रागादिजनितसंक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तेः,
"जह जह सुयमो(मव)गाहइ अइसयरसपसरसंजुयमपुव्वं ।
तह तह पल्हाइ मुनी नवनवसंवेगसद्धाए ।।"त्ति, मू.(११३८) एगग्गमणसंनिवेसणाए णं भंते ! जीवे किंजणेइ ?, २ चित्तनिरोहं करेइ।
वृ. श्रुताराधना चैकाग्रमनःसंनिवेशनात एव भवत्यतस्तामाह-एकमग्रं-प्रस्तावाच्छुभमालम्बनमस्येत्येकाग्रं तच्च तन्मनश्च तस्य संनिवेशना-स्थापना, एकाग्रे वा मन:संनिवेशना तया चित्तस्येतस्तत उन्मार्गप्रस्थितस्य निरोधो-नियन्त्रणा चित्तनिरोधस्तं करोति।
मू.(११३९) संजमेणं भंते ! जीवे किं जणेइ, २ अनण्हयत्तं जणेह॥ - वृ. एवंविधस्यापि संयमादेवेष्टफलावाप्तिरिति तमाह-'संयमेन' पञ्चाश्रवविरमणादिना 'अणण्हयत्तं'ति 'अनंहस्कत्वम्' अविद्यमानकर्मत्वं जनयति, आश्रवविरमणात्मकत्वादस्य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org