________________
अध्ययनं-१८,[ नि. ३९७]
वृ.अहेति गाथा व्याख्यातप्रायैव, नवरं 'नाम्ना' अभिधानेन गर्दभालि-गर्दभालिनामेत्यर्थः, 'झविय'त्ति क्षपिता दोषाः-कर्मा श्रवहेतुभूता हिंसादयो येन स तथा ॥ पुनस्तत्र यदभूत्तदाहमू. (५६५) अह आसगओ राया, खिप्पमागम्म सो तहिं।
हए मिए उ पासित्ता, अनगारं तत्थ-पासई॥ वृ.'अथ' अनन्तरम् 'अश्वगतः' तुरगारूढो राजा 'क्षिप्रं' शीघ्रमागत्य 'स' इति सञ्जयनामा 'तस्मिन्' यत्र मण्डपे स भगवान् ध्यायति, 'हतान् विनाशितान् मृगान् तुशब्द एवकारार्थस्ततो मृगानेव, न पुनरनगारमित्यर्थः, 'पासित्त'त्ति दृष्ट्वा 'अनगारं' साधुं 'तत्र' इति तस्मिन्नेवस्थाने पश्यतीति सूत्रार्थः । ततः किमसावकार्षीदित्याहमू.(५६६) अह राया तत्थ संभंतो, अनगारो मनाऽऽहओ।
- मए उ मंदपुग्नेणं, रसगिद्रेण घंतुणा । वृ.अथ राजा 'तत्रे'ती तद्दर्शने सति संभ्रान्तः' भयव्याकुलो, यथाऽनगारो-मुनिर्मनागितिस्तोकेनैव आहतः' विनाशितः, तदासन्नमृगहननादित्यभिप्रायः, मया तु मन्दपुण्येन ‘रसगृद्धेन' रसमूर्छितेन ‘घंतुण'त्ति घातुकेन हनन शीलेनेत्यर्थः ।। ततश्चमू. (५६७). आसं विसज्जइत्ताणं, अनगारस्स सो निवो।
विनएणं वंदई पाए, भगवं! इत्थ मे खमे। वृ. 'अश्वं' तुरगं 'विसृज्य' विमुच्य 'णं' प्राग्वत्, ‘अनगारस्य' उक्तस्यैव 'सः' सञ्जयनामा नृपः 'विनयेन' उचितप्रतिपत्तिरूपेण 'वन्दते' स्तौति ‘पादौ' चरणौ, अत्यादरख्यापकं चैतत् 'पादावपि तस्य भगवतः स्तवनीयाविति, वक्ति च-यथा भगवन् ! 'अत्र' एतस्मिन् मृगव्ये, मम अपराधमिति शेषः, क्षमस्व' सहस्व॥ मू. (५६८) अह मोनेन सो भगवं; अनगारो झाणमस्सिओ।
रायाणं न पडिमंतेइ, तओ राया भयदुओ। वृ. अथ' इत्यनन्तरं 'मौनेन' वाग्निरोधात्मकेन 'सो'त्तिस गर्दभालिनामा भगवान् अनगारः 'ध्यान' धर्मध्यानम् 'आश्रितः' स्थितः 'राजान्' नृपं 'न प्रतिमन्त्रयते' न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, 'ततः' तत्प्रतिवचनाभावतोऽवश्यमयंक्रुद्ध इति न किमपि मां प्रभाषते इति राजा भयद्रुतः' अतीव भयत्रस्तो, यथा न ज्ञायते किमसौ क्रुद्धः करिष्यतीति, उक्तवांश्च यथामू. (५६९) संजओ अहमस्सीति, भगवं! वाहिराहि मे।
कुद्धे तेएण अनगारे, दहिज्जा नरकोडिओ॥ वृ. सञ्जयः' सञ्जयनामा राजाऽहमस्मि, मा भूनीच एवायमिति सुतरां कोप इत्येतदभिधानमिति, 'इति' अस्माद्धेतोर्भगवन्! 'वाहराहि'त्ति व्याहर-संभाषय 'मे' इति सुब्ब्यत्ययान्माम्, अथापि स्यात्-किमेवं भवान् भयद्रुत इत्याह-'क्रुद्धः' कुपितः 'तेजसा' तपमाहात्म्यजनितेन तेजोलेश्यादिना 'अनगार:' मुनिः 'दहेत्' भस्मसात्यकुर्यात् नरकोटी:, आस्तां शतं सहस्रं वेति, अतोऽत्यन्तभयद्रुतोऽहमिति सूत्रचतुष्टयार्थः । इदमेव व्यक्तीकर्तुमाह नियुक्तिकृत्नि.[३९८] अह आसगओ राया तं पासिअ संभमागओ तत्थ।
भणइ अहा जह इण्हि इसिवज्झाए मना लित्तो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org