SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-२-१८/५६० दिरूपं यस्य सोऽयमुदीर्णबलवाहनः, यद्वा बलं-शरीरसामर्थ्य वाहनं-गजाश्वादि, पदात्युपलक्षणं चैतत्, स च 'नाम्ना' अभिधानेन सञ्जयः 'नाम' इति प्राकाश्ये, ततोऽयमर्थः-संजय इति नाम्ना प्रसिद्धो, मृगव्यां-मृगयां प्रतीति शेषः, उप-सामीप्येन निर्गतो-निष्क्रान्त उपनिर्गतस्तत एव नगरादिति शेष इति सूत्रार्थः । स च कीदृग् विनिर्गतः किं च कृतवानित्याहमू. (५६१) हयानीए गयानीए, रहानीए तहेव य। पायत्तानीए महया, सव्वओ परिवारिए । मू.(५६२) मिए छुभित्ता हयगओ, कंपिल्लज्जाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए। वृ. पाठसिद्धं, नवरंपदातीनां समूहः पादातं तस्यानीकं-कटकं पादातानीकं तेन, सुब्व्यत्ययः प्राग्वत्, एवं पूर्वेष्वपि, ‘महता' बृहत्प्रमाणेन मृगान् क्षिप्त्वा कंपिल्लुज्जाणकेसरि'त्ति तस्यैव काम्पील्यस्य नगरस्य सम्बन्धिनि केशरनाम्न्युद्याने भीतान्' त्रस्तान् सतो 'मितान्' परिमितान् 'तत्र' तेषु मृगेषु मध्ये 'वहेइ'त्ति व्यथति हन्ति वा, शरैरिति गम्यते, रसः-तत्पिशितास्वादस्तत्र मूच्छितो-गृद्धो रसमूर्छित इति सूत्रद्वयार्थः॥अमुमेवार्थं सूत्रस्पर्शिकनियुक्त्यिा स्पष्टयितुमाहनि.[३९५] कंपिल्लपुरवरंमि अ नामेणं संजओ नरवरिंदो। सो सेनाए सहिओ नासीरं निग्गओ कयाइ। नि.[३९६] हयमारूढो राया मिए छुहित्ताण केसरुज्जाने। ते तत्थ उ उत्तत्थे वहेइ रसमुच्छिओ संतो। वृ.गाथाद्वयं प्रतीतमेव, नवरमिह नासीरं-मृगयां प्रति उत्त्रस्तान्' अतिभीतानिति गाथाद्वयार्थः ।। अत्रान्तरे यदभूत्तदाह सूत्रकृत्मू. (५६३) अह केसरंमि उज्जाने, अनगारे तवोधने। सज्झायझाणजुत्तो, धम्मज्झाणं झियायइ। वृ. 'अथ' अनन्तरंकेशरे उद्यानेऽनगारस्तपोधनः स्वाध्यायः-अनुप्रेक्षणादिान-धर्मध्यानादि ताभ्यां युक्तो-यथाकालं तदासेवकतया सहितः स्वाध्यायध्यानयुक्तोऽत एव धर्मध्यानम्' आज्ञाविजयादि 'झियायइ'त्ति ध्यायति चिन्तयति क्व? मू. (५६४) अप्फोवमंडवंमी, झायई झवियासवे। तस्सागए मिए पासं, वहेइ से नराहिवे । वृ. 'अप्फोवमंडवंमि'त्ति अप्फोवमण्डवमिति वृक्षाद्याकीर्णे, तथा च वृद्धाः-अप्फोव इति, किमुक्तं भवति?-आस्तीर्णे, वृक्षगुच्छगुल्मलतासंछन्न इत्यर्थः, 'मण्डपे' नागवल्लयादिसम्बन्धिनि ध्यायति धर्मध्यानमिति गम्यते, पुनरभिधानमतिशयख्यापकं, झवियत्ति-क्षपिता निमूर्लिता आश्रवाः-कर्मबन्धहेतवो हिंसादयो येन स तथा, 'तस्य' इत्युक्तविशेषणान्वितस्यानगारस्य 'पावं' समीपमिति सम्बन्धः, आगतान्' प्राप्तान् मृगान् ‘वहेइति'त्ति विध्यति हन्ति वा 'स' इति सञ्जयनामा नराधिपः' राजेति सूत्रद्वयार्थः ।। अमुमेवार्थं सविशेषमाह नियुक्तिकृत्नि.[ ३९७] . अह केसरमुज्जाने नामेणं गद्दभालि अनगारो। अप्फोवमंडवंमि अ झायइ झाणं झविअदोसो।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy