________________
उत्तराध्ययन-मूलसूत्रम्-२-२६/१०२३ मू.(१०२३) रतिपि चउरो भाए, भिक्खु कुज्जा वियखणो।
तओ उत्तरगुणे कुज्जा राई भो(भा)गेसु चउसुवि॥ मू.(१०२४) पढम पोरिसि सज्झायं बीयं झाणं झियायई।
तइयाए निद्दमुक्खं तु चउत्थी भुज्जोवि सज्झायं। ७. सूत्रद्वयं स्पष्टमेव, नवरं रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः, । द्वितीयां पौरुषीं 'ध्यायति ध्यानं' सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीपसागरभवनादि वा 'झियाए'त्ति ध्यायेत्' चिन्तयेत्, तृतीयायां निद्राया मोक्षः-पूर्वनिरुद्धाया मुत्कलना निद्रामोक्षः-स्वाप इत्यर्थस्तं, कुर्यादिति सर्वत्र प्रक्रमाद्योज्यं, वृषभापेक्षं चैतत्, सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमः
"सव्वेसि पढमजामे दोन्नि उ वसभाण आदिमा जामा।
ततितो होइ गुरूणं चउत्थओ होइ सव्वेसिं॥" शयनविधिश्चायम्-बहुपरिपुनाए पोरिसीए गुरुसगासं गंतूणं भणति इच्छामि खमासमणो वंदिउंजावणिज्जाए, निसीहियाए मत्थएण वंदामि, बहुपडिपुन्ना पोरिसी अनुजाणहराइसंथारयं, ताहे पढमं काइयाभूमि वच्चंति, ताहे जत्थ संथारभूमि तत्थ वच्चंति, ताहे उवहिंमी उवओगं करित्ता यमज्जेत्ता उ उवहीए दोरयं छोडंति, ताहे संथारपट्टयं उत्तरपट्टयं च पडिलेहित्ता दोवि एगत्थ लाइत्ता ऊरंमि ठवंति, ताहे संथारभूमि पमज्जंति, ताहे संथारयं अच्छुरंति सउत्तरपट्टयं, तत्थ (य) लग्गा मुहपोत्तियाए उवरिमं कायं पमज्जंतित्ति हिट्ठिलं रयहरणेणं, कप्पे य वामपासे ठवेंति, पुनो संथारयं चडेत्ता-जेट्ठज्जाईण पुरओ चिटुंताणं-अनुजाणेज्जह, पुणो सामाईयं तिन्नि वारे कड्डिऊण सुयंति त्ति । सुप्तानां चायं विधिः
"अनुजाणह संथारं बाहुवहाणेण वामपासेणं। पायपसारणि कुक्कुडि अतरंतो पमज्जए भूमि ॥१॥
संकोए संडासं उव्वत्तंती य कायपडिलेहा ।
दव्वादीउवओगं उस्सासनिरंभणालोयं ।।२।। इति सूत्रद्वयार्थः ।। सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाहमू.(१०२५) जं नेइ जया रत्तिं नक्खत्तं तंमि नहचउब्भाए।
संपत्ते विरमिज्जा सज्झाय पओसकालंमि॥ म.(१०२६) तम्मेव य नक्खत्ते गयणं चउभागसावसेसंमि।
वेरत्तियपि कालं पडिलेहिता मुनी कुज्जा। वृ.यत् 'नयति' प्रापयति परिसमाप्तिमिति गम्यते यदा रात्रि नक्षत्रं तस्मिन्नभश्चतुर्भागे संप्राप्ते "विरमेत' निवर्तेत 'सज्झाय'त्ति स्वाध्यायात्, 'प्रदोषकाले' रजनीमुखसमये प्रारब्धादिति शेषः, तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते, क्वेत्याह-'गगण'त्ति गगने, कीदृशि?- चतुर्भागेन गम्येन सावशेष-सोद्धरितं चतुर्भागसावशेष तस्मिन् 'वैरात्रिकं' तृतीयम्, अपिशब्दान्निजनिजसमये प्रादोषीकादिकं च कालं 'पडिलेहित्तति प्रत्युपेक्ष्य प्रतिजागर्य मुनिः 'कुर्यात्, करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात्, इह च काक्वोपलक्षणद्वारेण प्रथमादिषु नभश्चतुर्थभागेषु संप्राप्ते नेतरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org