SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११५ अध्ययनं-२६,[ नि. ४९०] मू.(१०२०) अंगुलं सत्तरत्तेनं, पक्खेणं तु दुअंगुलं। वड्डए हायए वावि, मासेणं चउरंगुलं॥ मू. (१०२१) आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य। फग्गुणवइसाहेसु य नायव्वा ओमरत्ता उ॥ वृ. तत्र प्रथमं प्रतीतमेव, द्वितीयमपि तथैव, नवरं सप्तरात्रेणेति, दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने हीयत उत्तरायणे, इह च सप्तरात्रेणेत्यत्र सार्द्धनेति विशेषो द्रष्टव्यः, पक्षेण द्व्यंगुलवृद्धभिधानात्, अन्यच्च केषुचिन्मासेषु दिनचतुर्दशकेनापि पक्षः संभवति, तत्र च सप्ताहोरात्रेणाप्यंगुलवृद्धिहान्या न कश्चिद्दोषः ।। केषु पुनर्मासेषु दिनचतुर्दशकेनापि पक्षसम्भव इत्याह-'आसाढे'त्यादि, इदमपि सुगममेव, नवरं बहुलपक्ष इति भाद्रपदादिष्वपि प्रत्येकमभिसम्बध्यते, ततः ‘आसाढे'त्ति आषाढे बहुलपक्षे भाद्रपदादिषु च बहुलपक्षे 'ओम'त्ति ‘अवमा' न्यूना एकेनेति शेषः, 'रत्त'त्ति पदैकदेशेऽपि पदप्रयोगदर्शनादहोरात्राः, एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः, इदं च व्यवहारतः पौरुषीमानं, निश्चयतस्तु, "अयनाईयदिनगणे अट्ठगुणेगट्ठिभाइए लर्छ । उत्तरदाहिणमाइ उत्तरपयसोज्झपक्खेवो।।" अत्र चायनम्-उत्तरायणं दक्षिणायनं च तस्यातीतदिनानि-अतिक्रान्तदिवसास्तेषां गणःसमूहोऽयनातीतदिनगणः, सचोत्कृष्टतस्त्रशीतं शतं, तच्चाष्टगुणं जातानि चतुर्दशशतानि चतःषष्टधिकानि, तत्र चैकषष्टया भागे हते लब्धानि चतुर्विंशतिरंगुलानि, तत्रापि द्वादशभिरंगुलैः पदमिति जाते द्वे पदे, एतयोश्च, 'उत्तरदाहिणमाई'त्ति उत्तरायणादौ दक्षिणायनादौ च 'उत्तरपद'त्तिउत्तरपदयोः 'सोज्झ'त्ति शुद्धिः प्रक्षेपशश्च, तत्र हि उत्तरायणप्रथमदिने चत्वारि पदान्यासन् ततस्तन्मध्यात्पदद्वयोत्सारणे जाते कर्कटसंक्रान्तयदिने द्वे पदे, दक्षिणायनाद्यदिने तु द्वे पदे अभूतां, तन्मध्ये च द्वयोः क्षिप्तयोर्जातानि मकरसंक्रान्तौ चत्वारि पदानि, इदं चोत्कृष्ट-जघन्यदिनयोः पौरुषीमानं, मध्यमदिनेष्यप्यभिहितनीतितः सुधिया भावनीयमिति सूत्रत्रयार्थः । इह प्रथमपौरुष्यामुपलक्षणद्वारेण प्रतिलेखनाया अपि विधेयत्वमुक्तं, पादोनैव चासौ तत्कालत्वेन प्राक् प्रदर्शितेति तत्परिज्ञानोपायमाहमू.(१०२२) जिट्ठामूले आसाढसावणे छहि अंगुलेहि पडिलेहा। अट्ठहि बिइयतीयंमी तइए दस अट्ठहि चउत्थे ।। वृ. जिट्ठासूत्रम् । ज्येष्ठामूल इति ज्येष्ठे, आषाढश्च श्रावणश्चाषाढश्रावणं तत्र, कोऽर्थः ?ज्येष्ठे श्रावणे च षड्भिरंगुलैः प्रत्यहं प्रागुपदिष्टपौरुषीमाने प्रक्षिप्तैरिति चेहोत्तरत्र(च) गम्यते, प्रतिलेखेति प्रक्रमात्प्रतिलेखनाकालः, एवं तावदेकस्मिस्त्रिके, तथाऽष्टभिरंगुलैरिति सर्वत्रानुवर्त्तते द्वितीयत्रिके भाद्रपदाश्वयुक्कार्तिकलक्षणे प्रतिलेखनाकालः, तथा तृतीये प्रक्रमात्रिके मार्गशीर्षपौषमाघात्मनि दशभिः प्रतिलेखनाकालः, तथाऽष्टभिश्चतुर्थे प्राग्वत्रिके फाल्गुनचैत्रवैशाखस्वरूपे प्रतिलेखनाकालः इति सूत्रार्थः ।। इत्थं दिनकृत्यमभिधाय रात्रौ यद्विधेयं तदाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy