________________
१००
उत्तराध्ययन- मूलसूत्रम् - २ - २५ / ९६९
अशेषविद्यास्थानोपलक्षणमेतत्, ततो ये चतुर्दशविद्यास्थानपारगताः, जे समत्था समुद्धत्तुं परं अप्पाणमेव य । तेसिमन्नमिणं देयं, भो भिक्खू ! सव्वकामियं ॥
मू. ( १७० )
वृ. अत एव च ये 'समर्थाः ' शक्तिमन्तः समुद्धर्त्तु भवसमुद्रादिति गम्यते, 'तेसिं' ति सुब्व्यत्ययात् 'तेभ्यः' अनन्तरमुक्तरूपेभ्यः द्विजेभ्यः 'सव्वकामिय' न्ति सर्वाणि कामानि-अभिलषणीयवस्तूनि यस्मिंस्तत्सर्वकाम्यं, यद्वा सर्वकामैर्निर्वृत्तं तत्प्रयोजनं वा सर्वकामिकं, षड्ररसोपेतमित्यर्थः, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥
एवमुक्तो मुनिः स कीदृग जात: ? किं वा कृतवान् ? इत्याह
मू. (९७१)
मू. (९७२ )
मू. (९७३)
मू. ( ९७४ )
वृ.‘स:' इति जयघोषनामा 'तत्रे' ति यज्ञे 'एवे 'ति एवम् उक्तप्रकारेण 'प्रतिषिद्धः ' निराकृतः, केन ? - 'याजकेन' यज्ञकर्त्रा विजयघोषब्राह्मणेन महामुनिर्नापि 'रुष्टः' इति रोषं गतः "बहुं परघरे अत्थि विविहं खाइमसाइमं ।
न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥'
"
मू. (९७६)
Jain Education International
सो तत्थ एव पडिसिद्धो, जायगेण महामुनी । नवि रुट्ठो नवि तुट्ठो, उत्तमट्ठगवेसओ ॥ नत्र पानहेडं वा, नवि निव्वाहणाय वा । तेसिं विमुक्खणट्ठाए, इमं वयणमब्बवी ॥ नवि जानसि वेयमुहुं, नवि जन्नाण जं मुह । नक्खत्ताण मुहुं जंच, जं च धम्माण वा मुहं ॥ जे समत्था समुद्धत्तुं परं अप्पाणमेव य । न ते तुमं विजाणासि, अह जानासि तो भण ॥
इत्याद्यागमपरिभावनातो, नापि 'तुष्टः ' परितोषं प्राप्तः, किन्तु समतयैव स्थिति इति भावः, किमित्येवं ?, यत उत्तमार्थो - मोक्षस्तमेव गवेषयते - अन्वेषयते इत्युत्तमार्थगवेषको, मुक्ति विनाऽन्यत्र निःस्पृहइतियावत्, 'न' नैवान्नम् - ओदनादि तदर्थं, पीयत इति 'कृत्यलुटो ऽन्यत्रापी' ति वचनात्कर्मणि ल्युटि पानम् - आचाम्लादि तद्धेतुं वा तन्निमित्तं वा, नापि 'निर्वाहणाय वा' वस्त्राभ्यङ्गतैलादिना यापनार्थं सर्वत्रात्मन इति गम्यते, किमर्थं तर्हि ? इत्याह
'तेषां' याजकानां ‘विमोक्षार्थं' यथा कथं नु नामामी विमुक्तिमाप्नुयुरिति प्रयोजनार्थम् ‘इदं' वक्ष्यमाणं वचनमब्रवीत्, किं तदित्याह- 'नंवि' त्ति नैव जानासि वेदानां मुखं वेदमुखंयत्तेषु प्रधानं नापि यज्ञानां यन्मुखम् उपायो नक्षत्राणां मुखं प्रधानं यच्च यच्च धर्माणां वा मुखम्-उपायस्तद्, अनेन तस्य वेदयज्ञज्योतिर्धर्मानभिज्ञत्वमुक्तं । सम्प्रति पात्राविज्ञतामाह'जे' इत्यादि, व्याख्यातप्रायमेव, नवरम्, अथ जानासि ततो भणेत्याक्षेपाभिधानमिति सूत्रचतुष्टयार्थः । एवं च तत्राक्षिप्तवति भगवति स किं कृतवानित्याहतस्सक्खेवपमुक्ख च, अचयंतो तहिं दिओ । सपरिसो पंजलीहोडं, पुच्छई तं महामुनिं ॥ वेयाणं च मुहं बूहि, ब्रूहि जन्नाण जं मुहं ।
मू. (९७५)
For Private & Personal Use Only
www.jainelibrary.org