________________
उत्तराध्ययन- मूलसूत्रम् - १-२ / ६२ औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता, तस्य तदुपकारित्वात्, यच्च यत्रोपकारि न तत्तस्मिन्नुदासीनं यथा तन्त्वादयः पढ़े, चारित्रोपकारि च चीवरं, तथाहि संयमात्मकं चारित्रं, न च तस्य तत्पारिहेण शुद्धिरिति, आगमश्च
“किं सञ्जमोवयारं करेइ वत्थाइ जइ मई सुणसु । सीयत्ताणं ताणं जलणतणगयाण सत्ताणं ॥ १ ॥ तह निसि चाउक्कालं सज्झायज्झाणसाहणमिसीणं । हिममहियावासोसारयाइरक्खाणिमित्तं तु ॥२॥"
इत्यतः स्थितमेतत् - चारित्रनिमित्तं चीवरमिति नासिद्धता हेतोः, विरुद्धत्वानैकान्तिकत्वे तूक्तानुसारतः परिहर्तव्ये । ततश्च
८८
“निर्ग्रन्थानाममलज्ञानयुतैस्तीर्थकृद्भिरुक्तानि । सम्यग्व्रतानि यस्मान्नैर्ग्रन्थ्यमतः प्रशंसन्ति ॥ १ ॥ रागाद्यपचयहेतुं नैर्ग्रन्थ्यं स्वप्रवृत्तितस्तेषाम् । तद्वृद्धिरतोऽवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥२॥
इत्यादि दुर्मतिपरिस्पन्दितमपकर्णनीयम् । सम्प्रति 'महल्लेत्तिद्वारं, तत्र च 'एयं धम्महियं नच्चे' त्यादिसूत्रसूचितं दृष्टान्तमाह
नि. [ ९४ ]
नि. [१५]
नि. [ ९६ ]
नि. [ ९७]
वृ. वीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्य लभते शतं गुलिकानां प्रद्योतेनानीतोज्जयिनीं, दृष्ट्वा चेटीमरणं प्रभावती प्रव्रज्या कालगता पुष्करकरणं ग्रहणं दशपुरप्रद्योतमोचनं च, माता च रुद्रसोमा पिता च नाम्ना सोमदेव इति भ्राता च फल्गुरक्षितः तोसलिपुत्राश्चाचार्याः सिंहगिरिभद्रगुप्ताभ्यां च वज्रक्षमणात्पठित्वा पूर्वगतं प्रव्रजितश्च भ्राता रक्षितक्षमणैर्जनकश्चेति गाथाचतुष्टयाक्षरार्थः ॥
वीयभय देवदत्ता गंधारं सावयं पडियरित्ता । लहइ सयं गुलियाणं पज्जोएण नी (नानि) ओज्जेनिं ॥ दट्ठूण चेडिमरणं पभावई पव्वइत्तु कालगया । पुक्खरकरणं गहणं दसउरपज्जोयमुयणं च । माया म रुद्दसोमा पिया य नामेन सोमदेवत्ति । भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया | सिंहगिरि भद्दगुत्ते वयरक्खमणा पढित्तु पुव्वगयं । पव्वाविओ य भाया रक्खियखमणेहि जनओ य ।।
भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - जीवसामिपडिमावत्तव्वयं दसपुरुप्पत्तिं च भाणिऊणं ताव भाणियव्वं जाव अज्जवयरसामिनो सयासे नव पुव्वाणि दसमस्स य पुव्वस्स किंचि अहिज्जिऊण अज्जरक्खिया दसपुरमेव गया, तत्थ सव्वो सयणवग्गो पव्वावितोमाया भाया भगिनी, जो सो तस्स खंतो सोऽवि तेसिं अनुरागेणं तेहिं चेव सम्मं अच्छइ, नो पुण लिंगं गेण्हइ लज्जाए, किह समणतो पव्वइस्सं?, इत्थं मम धूयातो सुण्हातो णत्तुगीतो, तासिं पुरतो न तरामि नग्गो अच्छिहं, एवं सो तत्थ अच्छइ, बहुसो आयरिया भणंति, ताहे सो भणति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org