________________
अध्ययनं - २, [ नि. ९३]
उवगरणमामेसि पुरिसावेक्खाए बहुभेयं ॥"
अथवा अस्तु जिनकल्पिकानामुपकरणाभाव:, तथापि धृतिशक्तिसंहनन श्रुतातिशययुक्तानामेव तत्प्रतिपत्तिः अथ रथ्यापुरुषाणामपि ?, यद्याद्यो विकल्पस्तत्किमेवंविधाः सम्प्रत्यपि सन्ति न वा ?, सन्ति चेदुपलब्धिलक्षणप्राप्ता उपलभ्येरन्, अनुपलब्धिलक्षणप्राप्ताश्च कुत: सत्त्वेन निश्चीयन्ते ?, अथ न सन्ति, तादृशामेव जिनकल्पप्रतिपत्ति:, तर्हि वृथैव - "मनपरमोहिपुलाए आहारग खवग उवसमे कप्पे । संजमति केवल सिज्झणा य जंबुम्मि वोच्छिन्ना ।।"
इत्याप्तवचनानाश्रयणं, यदि रथ्यापुरुषाणामपीति कल्प्यते, तिरश्चामपि तत्कल्पनाऽस्तु, अथ देशविरतिभाज एव त इति न तेषां तत्प्रतिपत्तिः, तर्हि सर्वविरतिस्तत्कारणं, तथा च तद्वता एकेन यत्कृतं तत्किमखिलैरपी तद्वद्भिराचरणीयमथ तथाविधशक्तियुक्तैरेव ?, यद्याद्यो विकल्पस्तदैकस्मिन् मासषण्मासादिकं तपश्चरत्नन्यैरपि तच्चरणीयं स्याद्, अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तेरैव प्रतिपत्तव्यः, अथ तथाविधशक्तिविकलानां तत्तपश्चरतां बहुतरदोषसम्भव इति न तच्चरणं, तदिहापि तुल्यं, तथाहि - सम्भवत्येवेदानीन्तनयतीनां तथाविधशक्तिसंहननविकलतया हिमकणानुषक्तशीतादिषु बहुतरदोषहेतुकमनग्यारम्भादिकं तथा तथाविधाच्छादनाभावातः शीतादिखेदितानां शुभध्यानाभावेन सम्यक्त्वादिविचलनम्, उक्तं च वाचकैः
"शीतवातातपैर्दंशैर्मशकैश्चापि खेदितः ।
मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ "
यच्च 'जिताचेलपरीषहो मुनि' रिति वचनतो न चीवरं धर्मोपकारीति, तत्र जिताचेलपरीषहत्वं चेलाभावनैवाहोश्चिदेषणाशुद्धतत्परिभोगेनापि ?, यदि चेलाभावेनैव ततः क्षुत्परीषहजयनमप्याहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम्, एतच्च भवतोऽपि नाभिमतं ततः परिशुद्धोप भोगितया जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः, स चास्मत्पथवर्त्येवेति न कुतोऽपि चीवरस्य धर्मानुपकारित्वनिश्चयः, अथ परेषां कषायकारणत्वेन चारित्रबाधकत्वं चीवरस्य, तर्हि धर्मादयोऽपि कस्यचित् कषायकारणं न वा ?, न तावन्न, तेऽपि कस्यचित्कषायतव इति चीवरवत्तेऽपि हातव्याः, आह च
44
'अत्थि य किं किंचिजए जस्स व कस्स व कसायबीजं तं । वत्थं न होज्ज ? एवं धम्मोऽवि तुमे न घेतव्वो ॥१॥ जेन कसायनिमित्तं जिनोऽवि गोसालसंगमाईणं । धम्म धम्मपरावि य पडिनीयाणं जिनमयं च ॥२॥
८७
अथैषां मुक्त्यङ्गतया कषायहेतुत्वेऽपि न हेयता, तदिहापि समानम्, उक्तं च वाचकसिद्धसेने"मोक्षाय धर्मसिद्धयर्थं, शरीरं धार्यते यथा । शरीरधारणार्थं च, भैक्षग्रहणमिष्यते ॥ १ ॥ तथैवोपग्रहार्थाय, पात्रं चीवरमिष्यते ।
जिनैरुपग्रहः साधरिष्यते न परिग्रहः ||२||" इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org