SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१/१ एकप्रदेशावगाढात् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेशावगाढः एवं यावदवसानवर्त्यसङ्ख्येप्रदेशावगाढः, कालत एकसमयस्थितेर्द्विसमयस्थितिः ततोऽपि त्रिसमयस्थितिः एवं यावदसङ्ख्येयसमयस्थितिः, भावत एकगुणकृण्णात् द्विगुणकृष्णः ततोऽपित्रिगुणकृण्णः एवं यावदनन्तगुणकृष्णः, यतो वा-क्षायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति, 'गणणओ'त्ति गणनात उत्तरमेककाद द्विकस्ततोऽपित्रिक एवं यावच्छीर्षप्रहेलिका, भावोत्तरं क्षायिको भावः, तस्य केवलज्ञानदर्शनाद्यात्मकत्वेन सकलौदयिकादिभावप्रधानत्वाद आह-एवमस्य प्रधानोत्तर एवान्तर्भावादयुक्तं भेदेनाभिधानं, यद्येवमत्यल्पमिदमुच्यते, एवं हि नामादिचतुष्टय एव सर्वनिक्षेपाणामन्तर्भावात्तदेवाभिधेयं, तत इहान्यत्र च यन्नामादिचतुष्टाधिकनिक्षेपाभिधानं तच्छिष्यमतिव्युत्पादनार्थं सामान्यविशेपोभयात्मकत्वख्यापनार्थं च सर्ववस्तूनामिति भावनीयमिति गाथार्थः । इहानेकधोत्तराभिधानेऽपिक्रमोत्तरमेवाधिकरिष्यति, विषयज्ञाने च विषयी सुज्ञानो भवति इति भन्वानो यत्रास्य सम्भवो यत्र चासम्भवो यत्र चोभयं तदेवाहनि.[२] जहन्न सुत्तरं खलु उक्कोसं वा अनुत्तरं होइ। सेसाइं उत्तराई अनुत्तराई च नेयाणि ।। वृ.-जघन्यं सोत्तरं खलु' अवधारणे, सोत्तरमेव 'उक्कोसे'ति उत्कृष्टं, वाशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद् अनुत्तरमेव भवति, 'शेषाणि' मध्यमानि 'उत्तराणि' इति अर्शआदित्वेनाजन्तवत्वात् मतुबलोपाद्वोत्तरवन्ति अनुत्तराणि च ज्ञेयानि। द्रव्यक्रमोत्तरादिनि हि जघन्यान्येकप्रदेशिकादीनि उपरि द्विप्रदेशिकादिवस्त्वन्तरभावात् सोत्तराण्येव, तदपेक्षयैव तेषां जघन्यत्वात्, उत्कृप्टानि त्वन्त्यानन्तप्रदेशिकादीन्यनुत्तराण्येव, तदुपरिवस्त्वन्तराभावाद, अन्योथोत्कृष्टत्वायोगात्, मध्यमानि तु द्विप्रदेशिकादीनि त्रिप्रदेशिकाद्यपेक्षया सोत्तराणि एकप्रदेशापेक्षया त्वनुत्तराणि, उपरितनवस्त्वपेक्षयैव सोत्तरत्वाात् इति गाथार्थः ।। उत्तरस्यानेकविधत्वेन येनात्र प्रकृतं तदाहनि.[३] कमउत्तेरण पगयं आयारस्सेव उवरिमाइं तु। तम्हा उ उत्तरा खलु अज्झयणा हुंति नायव्वा ॥ वृ. क्रमापेक्षमुत्तरं क्रमोत्तरं, शाकपार्थिवादित्वान्मध्यपदलोपी समासः, तेन प्रकृतम्अधिकृतम्, इह च क्रमोत्तरेणेति भावतः क्रमोत्तरेण, एतानि हि श्रुतात्मकत्वेन क्षायोपशमिकभावरूपाणि तद्रूपस्यैवाऽऽचाराङ्गस्योपरि पठ्यमानत्वेनोत्तराणीत्युच्यन्ते, अत एवाह'आयारस्सेव उवर्माइं'ति एवकारो भिन्नक्रमः, ततश्चाचारस्योपर्येव-उत्तरकालमेव 'इमानी'ति हृदि विपरिवर्तमानतया प्रत्यक्षाणि, पठितवन्त इति गम्यते, 'तुः' विशेषणे, विशेषश्चायं यथाशय्यम्भवं यावदेष क्रमः, तदाऽऽरतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति, 'तम्हा उ'त्ति 'तुः' पूरणे, यत्तदोश्च नित्यमभिसम्बन्धः, ततो यस्मादाचारस्योपर्येवेमानि पठितवन्तस्तस्माद् 'उत्तराणि' उत्तरशब्दवाच्यानि, 'खलुः' वाक्यालङ्कारेऽवधारणेवा, तत उत्तराण्येव अध्ययनानि' विनय श्रुतादीनि भवन्ति 'ज्ञातव्यानि' अबबोद्धव्यानि, प्राकृतत्वाच्च लिङ्गव्यत्यय इति गाथार्थः ।।आह-यद्याचारस्योपरिपठ्यमानत्वेनोत्तराण्यमूनि, तात्कि? यत एवाचारस्य प्रसूतिरेषामपि तत एव अभिधेयमपि यदेव तस्य तदेवोतान्यथेति संशायापनोदायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy