________________
अध्ययनं-१,[नि. १] चानुगतमनुरूपं वा श्रुतस्य स्वेनाभिधेयेन योजनं--सम्बन्धनं तस्मिन् वाऽनुरूपोऽनुकूलो वा योगः श्रुतस्यैवाभिधानव्यापारोऽनुयोगः, तदुक्तम्
"अनुजोयणमनुजोगो सुयस्स नियएण जमभिधेयेणं ।
ववारो वा जोगो जो अनुरूवोऽनुकूलो वा ।।" तस्य द्वाराणि-उपक्रमादीनि अनुयोगद्वाराणि तानि तद्भेदनिरुक्तिक्रमप्रयोजनानि च 'तत्थज्झयणं पढम' मित्यत्र वक्ष्यामः । आह-प्रकृतोऽयमुत्तराध्ययनानुयोगः, तत्र किमेतान्युत्तराध्ययनान्यङ्गमङ्गानि श्रुतस्कन्धः श्रुतकन्धा अध्ययनमध्ययनानि उद्देशक उद्देशका:?, उच्यते, नाङ्गं नाङ्गानि, श्रुतस्कन्धो न श्रुतस्कन्धाः, नाध्ययनमध्यनानि, नोद्देशको नोद्देशका इति। अस्य च नामनिक्षेपे 'उत्तराध्ययनश्रुतस्कन्ध' इति नाम, तत्रोत्तरं निक्षेप्तव्यमध्ययनं श्रुतस्कन्धश्च, तत्रोत्तरनिक्षेपाभिधानायाह भगवान् नियुक्तिकार:नि.[१] नामं ठवणा दविए खित्त दिसा तावखित्त पन्नवए।
पइकालसंचयपहाणनाणकमगणणओ भावे।। वृ.-इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वात् लुक, तथोत्तरनिक्षेपप्रस्तावात सचकत्वात्सूत्रस्य 'कमउत्तरेण पगय' मित्युत्तरश्रवणाच्च 'नाम'ति नामोत्तरं 'ठवणं'तिस्थापनोत्तरमित्याद्यमिलाप: कार्यः । तत्र नामोत्तरमिति नामैव यस्य वा जीवादेरुत्तरमिति नाम क्रियते, स्थापनोत्तरमक्षादि, उत्तरमिति वर्णविन्यासो वा, द्रव्योत्तरमागमतो ज्ञाताऽनुपयुक्तो नोआगमतो ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तं च, तत्र तद्व्यतिरिक्तं त्रिधा-सचित्ताचित्तमिश्रभेदेन, तत्र सचित्तं पितुः पुत्रः, अचित्तं क्षीरात् दधि, मिश्रं जननीशरीरतो रोमादिमदपत्यम्, इह च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादेरूवंभवनतश्च पुत्रादीनां द्रव्योत्तरत्वं भावनीयं, क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं, यथोत्तराः कुरवः, यद्वा पूर्वं शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं, दिगुत्तरमुत्तरा दिग्, दक्षिणदिगपेक्षत्वादस्य, तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते, यथासर्वेषामुत्तरो मन्दराद्रिः, प्रज्ञोपकोत्तरं यत् प्रज्ञापकस्य वामं, प्रत्युत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात् परो यज्ञदत्त उत्तरः, कालोत्तर: समया दावलिका आवलिकातो मुहर्तमित्यादि, सञ्चयोत्तरं यत्सञ्चयस्योपरि, यथा धान्यराशेः काष्ठं, प्रधानोत्तरमपि त्रिविधंसचित्ताचित्तमिश्रभेदात्, सचित्तप्रधानोत्तरमपि त्रिधैव, तद्यथा-द्विपदं चतुष्पदमपदंच, तत्र द्विपदमनुत्तरपुण्यप्रकृतितीर्थकरनामाद्यनुभवनतः तीर्थकरः, चतुष्पदमनन्यसाधारणशौर्यधैर्यादियोगतः सिंहः, अपदं रम्यत्वसुरसेव्यत्वादिभिर्जात्यजाम्बूनदादिमयी जम्बूद्वीपमध्यस्थिता सुदर्शनाजम्बूः, अचित्तमचिन्त्यमाहात्म्यमाहात्म्यश्चिन्तामणिः, मिश्रं तीर्थकरएव गृहस्थावस्थायां सर्वालङ्कारालङ्कृतः, ज्ञानोत्तरं केवलज्ञानं, विलीनसकलावरणत्वेन स्मस्तवस्तुस्वभावाभासितया च, यद्वा श्रुतज्ञानं, तस्य स्वपरप्रकाशकत्वेन केवलादपि महर्द्धिकत्वात्, उक्तं च
"सुयनाणं महिड्डीयं, केवलं तयनंतरं।
अप्पणो य परेसिं च, जम्हा तं परिभावनं ।।"ति क्रमोत्तरंक्रममाश्रित्य यद्भवति, तच्चतुर्वधं-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः परमाणोर्द्विप्रदेशिकः ततोऽपि त्रिपदेशिक: एवं यावदन्त्योऽनन्तप्रदेशिक: स्कन्धः, क्षेत्रत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org