________________
अध्ययनं-२,[ नि. ९०]
एवं अहियासेयव्वं। इत्यवसितः पिपासपरीषहः, क्षुत्पिपासासहनकर्शितशरीरस्य च नितरां शीतकाले शीतसम्बन्ध इति तत्परीषहमाहमू. (५५) चरंतं विरयं लूह, सीयं फुसइ एगया।
नाइवेलं विहन्निज्जा, पावदिट्ठी विहन्नाइ। वृ. 'चरन्तम्' इति ग्रामानुग्रामं मुक्तिपथे वा व्रजन्तं, धर्ममासेवमानं वा, 'विरतम्' अग्निसमारम्भादेनिवृत्तं विगतरतं वा 'लूह'ति स्नानस्निग्धभोजनपरिहारेण रूक्षं, किमित्याहशृणाति इति शीतं, 'स्पृशति' अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन बाध्यते, 'एकदे'ति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा, ततः किम् ?-'न' नैव वेला-सीमा मर्यादा सेतुरित्यनर्थान्तरु, ततश्चातीति शेषसमयेभ्यः स्थविरकल्पिकापेक्षया जिनकल्पिकापेक्षया च स्थविरकल्पाच्चातिशायिनी वेला शक्त्यपेक्षतया च सर्वथानपेक्षतया च शीतसहनलक्षणा मर्यादा तां विहन्यात्, कोऽर्थः-अपध्यानस्थानान्तरसर्पणादिभिरतिक्रामेत्, किमेवमुपदिश्यत इत्याहपासयति पातयति वा भवावर्त इति पापा तादृशी दृष्टि:-बुद्धिरस्येति पाददृष्टिः 'विहन्नई' इति सूत्रत्वाद्विहन्ति-अतिक्रामत्यतिवेलामिति प्रक्रमः, __ अयमत्र भावार्थ:-पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्गुरुपदेशात् परिहारो विधेयः, पठ्यते च-'नाइवेलं मुणी गच्छे, सुच्चा णं जिनसासनं' तत्र वेला-स्वाध्यायादिसमयात्मिका तामतिक्रम्य शीतेनाभिहतोऽहमिति 'मुनिः' तपस्वी न 'गच्छेत्' स्थानान्तरमभिसप्त्, 'सोच्चे'ति श्रुत्वा णमिति वाक्यालङ्कारे 'जीनशासनं जिनागमम्-अन्यो जीवोऽन्यश्च देहस्तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकम् मू.(५६) न मे निवारणं अत्थि, छवित्ताणं न विज्जइ।
___ अहं तु अग्गि सेवामि, इइ भिक्खू न चिंतए। .. वृ. न 'मे' मम नितरां वार्यते-निषिध्यतेऽनेन शीतवातादीति निवारणं-सौधादि अस्ति' विद्यते, तथा छवि:-त्वक्त्रायते-शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं-वस्त्रकम्बलादि न विद्यते, वृद्धस्तु शरणं-वस्त्रादि तथा छवि:-त्वक् त्राणं न विद्यते-न भवति, असौ हि शीतोष्णादीनां ग्राहिकेति व्याचक्षते, अत: 'अह'मित्यात्मनिर्देशः तुः पुनरर्थः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमिति अग्नि सेवेयुः?, अहं तं तदभावादत्राणः तत्किमन्यत्कोरमीत्यग्नि सेवे 'इती'त्येवं 'भिक्षुः' यतिः 'न चिन्तयेत्' न ध्यायेत्, चिन्तानिषेधे च सेवनं दूरापास्तमिति। इदानीं लयनद्वारं, तत्रच 'नातिवेलं मुनिर्गच्छेदि'त्यादिसूत्रावयवसूचित्तमाह.नि. [ ९१] रायगिहंमि वयंसा सीसा चउरो उ भद्दबाहुस्स।
वेभारगिरिगुहाए सीयपरिगया समाहिगया॥ वृ.राजगृहे नगरेवयस्याः शिष्याश्चत्वारस्तु भद्रबाहोर्वैभारगिरिगुहायांशीतपरिगताः समाधिगता इत्यक्षरार्थः ।। भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्
रायगिहे नयरे चत्तारि वयंसा वाणियगा सहवड्डियया, ते भद्दबाहुस्स अंतिए धम्म सोच्चा पव्वइया, ते सुयं बहुं अहिज्जित्ता अन्नया कयाइ एगल्लविहारपडियं पडिवना, ते समावत्तीए 28/6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org