________________
८०
उत्तराध्ययन
न- मूलसूत्रम् - १-२/५३ कस्य 'एसणं'ति चतुर्थ्येर्थे द्वितीया, ततश्चैषणाय गवेषणार्थं 'चरेत्, तथाविधकुलेषु पर्यटेत्, अथवा एषणाम्-एषणासमितिं चरेत्, चरतेरासेवायामपि दर्शनात्, पुनः पुनः सेवेत, किमुक्तं भवति ?-एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयमपि गृह्यंस्तामुल्लङ्घयेदिति सूत्रार्थः ॥ कदाचिज्जनाकुल एव निकेतनादौ लज्जातः स्वस्थ एव चैवं विदधीतेत्यत आहमू. (५४) छिन्नावासु पंथेसुं, आउरे सुपिवासिए । परिसुक्क मुहे दीने, तं तितिक्खे परीसहं ॥
वृ. छिन्नः-अपगतः आपातः-अन्यतोऽन्यत आगमनात्मकः अर्थाज्जनस्य येषु ते छिन्नापाताः, विविक्ता इत्यर्थ:, तेषु, 'पथिषु' मार्गेषु, गच्छत्रिति गम्यते, कीदृशः सन्नित्याह- 'आतुरः ' अत्यन्ताकुलतनुः, [:, किमिति ?, यतः सुष्ठु-अतिशयेन पिपासितः - तृषितः सुपिपासितः, अत एव च परिशुष्कं - विगतनिष्ठीवनतयाऽनार्द्रतामुपगतं मुखमस्येति परिशुष्कमुखः स चासौ अदीनश्च- दैन्याभावेन परिशुष्कमुखादीन: 'त'मिति तृट्परीषहं 'तितिक्षेत' सहेत पठ्यते च-' 'सव्वतो य परिव्वएत्ति' सर्वत इति सर्वान्-मनोयोगादीनाश्रित्य चः पूरणे 'परिव्रजेत्' सर्वप्रकारसंयमाध्वनि यायात्, उभयत्रायमर्थो विवक्तदेशस्थोऽप्यत्यन्तं पिपासितोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधि मुल्लङ्घयेत्, ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः ॥ इदानीं नदीद्वारमनुसरन् 'सीओदगं न सेवेज्जा' इत्यादिसूत्रावयवसूचितं निर्युक्तिकृत् दृष्टान्तमाहनि. [१०] उज्जेनी धनमित्तो पत्तो से खुड्डुओ अ धनसम्मो ।
तात्तो ऽपीओ कालगओ एलगच्छपहे ॥
वृ. उज्जयिन्यां धनमित्र: ‘से' इति तस्य पुत्रः क्षुल्लकश्च धनपुत्रशर्मा 'तण्हाएत्तो' त्ति तृषितोऽपीतः कालगत एडकाक्षपथ इत्यक्षरार्थः ॥ भावार्थस्तु सम्पदायादवसेयः, स चायम् -
एत्थ उदाहरणं किंचि पडिवक्खेण किंचि अनुलोमेण । उज्जेनी नाम नयरी, तत्थ धनमित्तो नाम वाणियतो, तस्स पुत्तो धनसम्मो नाम दारतो, सो धणमित्तो तेन पुत्तेण सह पव्वइओ । अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पट्ठिया, सोऽवि खुड्डुगो तण्हाइतो एति, सोऽपि से खंतो सिनेहानुरागेण पच्छओ एति, साहुणोऽपि पुरतो वच्चंति, अन्तरावि नदी समावडिया, पच्छा तेन वुच्चइ - एहि पुत्त! इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिन्नो चितेति य-मणागं ओसरामि, जावेस खुड्डुओ पाणियं पियइ, मा मे संकाए न पाहित्ति एगंते पडिच्छइ, जाव खुडतो पत्तो नई न पियति ।
भांति - अंजली उक्खित्ताए अह से चिंता जाया-पियामित्ति, पच्छा चिंतेई-कहमहं एए हालाहले जीवे पिविस्सं ?, न पीयं, आसाए छिन्नाए कालगतो, देवेसु उववण्णो, ओहिं पत्तो, जाव खुड्डगसरीरं पासति, तर्हि अनुपविट्ठो, खंतं अलग्गति, खंतोऽपि एतित्ति पत्थितो, पच्छा तेन तेसिं देवेनं साहूणं गोउलाणि विउव्वियाणि, साहूवि तासु वइयासु तक्काईणि गिण्हन्ति, एवं वईयापरंपरेण जाव जनवयं संपत्ता, पच्छिल्लाए वईयाए तेना देवेन विंटिया पम्हुसाविया जाणणनिमित्तं, एगो साहू नियत्तो, पेच्छति विटियं, नत्थि वइया, पच्छा तेहिं नायं - सादिव्वंति, पच्छा तेन देवेन साहुणो वंदिया, खंतो न वंदिओ, तओ सव्वं परिकहेइ, भणइ - एएण अहं परिचत्तो- तुमं णं पाणियं पियाहित्ति, जदि मे तं पाणियं पियं होन्तं तो संसारं भमंतो, पडिगतो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org