________________
७३
अध्ययनं-२,[नि. ८४] नि.[८४] कंडू अभत्तच्छंदो अच्छीणं वेयणा तहा कुच्छी।
कासं सासंच जरं अहिआसे सत्त वाससए।। वृ. 'कंडूं' कण्डूतिम्, 'अभक्तच्छन्दं' भक्तारुचिरूपम् 'अक्ष्णोः' लोचनयोः, 'वेदनां' दुःखानुभवं, सर्वत्र द्वितीयार्थे प्रथमा, 'तथे ति समुच्चये, कुच्छि'त्ति सुब्ब्यत्ययात् कुक्ष्योवेदना-शूलादिरूपं काशं श्वासं च ज्वरं' त्रयमपि प्रतीतमेव 'अध्यास्त' इति अधिसहते, सप्त वर्षशतानि यावत्। __ अनेन तु सनत्कुमारचक्रवय॒दाहरणं सूचितं, स हि महात्मा सनत्कुमारचक्रवर्ती शक्रप्रशंसाऽसहनसमायातामरद्वयनिवेदितशरीरविकृतिरुत्पन्नवैराग्यवासनः पटप्रान्तावलग्नतृणवदखिलमपि राज्यमपहायाभ्युपगतदीक्षः प्रतिक्षणमभिनवाभिनवप्रवर्द्धमानसंवेगो मधुकरवृत्त्यैव यथोपलब्धानपानोपरचितप्राणवृत्तिरनन्तरोक्तसप्तोद्दण्डकण्ड्वदिवेदनाविधुरितशरीरोऽपि संयमान्न मनागपि सञ्चचाल, पुनस्तत्सत्त्वपरीक्षणायातभिषग्वेषामरोपदर्शितद्वादशांशुमालिसमांगुल्यवयवश्च तत्पुरतः 'पुब्वि'कडाणं कम्माणं वेइत्ता' इत्यादि संवेगोत्पादकमागमवचः प्ररूपयन् स्वयमागत्य शक्रेणाभिवन्दित उपबंहितश्चेति गाथार्थः ।। सम्प्रति क्व परीषह इति क्षेत्रविषयप्रश्नप्रतिवचनमाहनि.[८५] लोए संथारंमि य परीषहा जाव उज्जुसुत्ताओ।
.. तिण्हं सद्दनयाणं परीसहा होइ अत्ताणे॥ वृ. लोके संस्तारके च परीषहः 'जाव उज्जुसुत्ताउ'त्ति सूत्रत्वात् ऋजुसूत्रं यावद्, अस्य च पूर्वार्द्धस्य सूचकत्वादविशुद्धनैगमस्य मतेन लोके परीषहाः, तत्सहिष्णुयतिनिवासभूतक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकानान्तरत्वात्, इत्थमपि च व्यवहारदर्शनाद्, एवमुत्तरोत्तरादिविशुद्धविशुद्धतरतद्भेदापेक्षया तिर्यग्लोकजम्बूद्वीपभरतदक्षिणार्द्धपाटलीपुत्रोपाश्रयादिषु भावनीयं, यावदत्यन्तविशुद्धतमनैगमस्य यत्रोपाश्रयैकदेशेअमीषां सोढा यतिस्तत्रामी इति, एवं व्यवहारस्यापि, लोकव्यवहारपरत्वादस्य, लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात्, संग्रहस्य संस्तारके परीषहाः, स हि संगृह्णातीति संग्रह इति निरुक्तिवशात् संग्रहोपलक्षितमेवाधारं मन्यते, संस्तारक एव च यतिशरीरप्रदेशैः संगृह्यते न पुनरुपाश्रयैकदेशादिरिति संस्तारक एवास्य परीषहाः, ऋजुसूत्रस्य तु येष्वाकाशप्रदेशेष्वात्माऽवगाढस्तेष्वेव परीषहाः, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात्, तत्रावस्थानाभावात्, त्रयाणां शब्दनयानां परीषहो भवति आत्मनि, स्वात्मनि व्यवस्थितत्वात्सर्वस्य, तथाहि-सर्वं वस्तु स्वात्मनि व्यवतिष्ठते सत्त्वाद् यथा चैतन्य जीवे, आह-किमेवं नयैर्व्याख्या?, निषिद्धा ह्यसौ, यदुक्तम्-'नत्थि पुहुत्ते समोयारे'त्ति, उच्यते, दृष्टिवादोद्धृतत्वादस्य न दोषः, तथा च प्रागुक्तम्-'कम्मप्पवायपुव्वे'त्यादि, दृष्टिवादे हि नयैर्व्याख्येत्यत्रापि तथैवाभिधानमिति गाथार्थः । इदानीमुद्देशादिद्वारत्रयमल्पवक्तव्यमित्येकगाथया गदितुमाहनि.[८६] . उद्देसो गुरुवयणं पुच्छा सीसस्स उ मुणेयव्वा ।
निद्देसो पुणिमे खलु बावीसं सुत्तफासे य॥ वृ.उद्दिश्यत इति उद्देशः, क इत्याह-'गुरुवचनं' गुरोः विवक्षितार्थसामान्यभिधायकं वचो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org