________________
७२
उत्तराध्ययन- मूलसूत्रम् - १-२ / ४८ वाच्यमिति । 'वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च परीषहः, 'द्वयोस्तु' पारिशेषयात् संग्रहव्यवहारयोः पुनर्मतेनेति गम्यते, अयं चानयोरभिप्रायः- यदि तावद्गरिनिर्झरजलादि क्षुदादिवेदनाजनकत्वेन परीषहः, कथमिव क्षुदादिवेदना न परीषहो, निरुपचरितं परीषह्यत इति परीषहलक्षणं वेदनाया एव सम्भवति, उपचरितं तु गिरिनिर्झरजलादौ, तात्त्वि - कवस्तुनिबन्धन - श्चोपचार इति तदभावे तस्याप्यभाव एव स्यात्, 'वेदनां' क्षुदाद्यनुभवात्मिकां 'प्रतीत्य' आश्रित्य जीवे परीषह इति ऋजुसूत्र: मन्यत इतीहापि गम्यते, अयमस्याशयः - सति हि निरुपचरितलक्षणान्वितेऽपि परीषहे स एव परीषहोऽस्तु, किमुपचरितकल्पनया ?, ततो निरुपचरितलक्षणयोगाद्वेदनैव परीषहः, सा च जीवधर्मत्वाज्जीवे नाजीव इति वेदनां प्रतीत्य जीवे परीषह उच्यते, न तु पूर्वेषामिवाजीवेऽपीति, 'शब्दस्ये 'ति शब्दाख्यनयस्य साम्प्रतसमभिरूढैवम्भूत-भेदतस्त्रिरूपस्य मतेनात्मा - जीवः, परीषह इति प्रक्रमः, पुनः - शब्दो विशेषं द्योतयति, विशेषश्च परीषहोपयुक्तत्वम्, अयं ह्युपयोगप्रधानः, उपयोगश्चात्मन एवेति परीषहोपयुक्त आत्मै परीषह इति मन्यते इति गाथार्थः ॥ इदानीं वर्त्तनाद्वारमाहari को वट्टेति जहन्नओ हवइ एगो । सीउसिण चरियं निसीहिया य जुगवं न वट्टंति ॥
नि. [ ८२]
वृ. विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्त्तन्ते, युगपदेकत्र प्राणिनीति गम्यते ‘जघन्यतः' जघन्यपदमाश्रित्य भवेदेकः परीषहः, ननूत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वर्त्तन्त इत्याह-‘सीउसिण’त्ति शीतोष्णे चर्यानैषेधिक्यौ च 'युगपद्' एककालं 'न वर्त्तते' न भवतः, परस्परं परिहारस्थितिलक्षणत्वादमीषां, तथाहि न शीतमुष्णे न चोष्णं शीते न चर्यायां नैषेधिकी नैषेधिक्यां वा चर्येत्यतो यौगपद्येनामीषाकत्रासम्भवान्नोत्कृष्टतोऽपि द्वाविंशतिरिति, आहनैषैधिकीवत्कथं शय्याऽपि न चर्यया विरुध्यते ?, उच्यते, निरोधबाधादितस्त्वङ्गनिकादेरपि तत्र सम्भवान्नैषेधिकी तु स्वाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति गाथार्थः ॥ कालद्वारमाह
नि. [८३]
वासग्गसो अ तिण्हं मुहुत्तमंतं च होइ उज्जुसुए। सद्दस्स एगसमयं परीषहो होइ नायव्वो ।।
"
वृ. 'वासग्गसो य'त्ति आर्षत्वाद्वर्षाग्रतः कोऽर्थः ? - वर्षलक्षणं कालपरिमाणमाश्रित्य, परीषहो भवति इति गम्यते, चः पूरणे, 'त्रयाणां ' नैगमसंग्रहव्यवहारनयानां मतेन, ते ह्यनन्तरोक्तन्यायतस्तदुत्पादकं वस्त्वपि परीषहमिच्छन्ति, तच्चैतावत्कालस्थितिकमपि सम्भवत्येवेति, 'मुहुत्तमंतं च' इति प्राकृतत्वादन्तर्मुहूर्तं पुनर्भवति, प्रक्रमात्परीषहः, ऋजुसूत्रे ऋजुश्रुते वा विचार्यमाणे, स हि प्रागुक्तनीतितो वेदना परीषह इति वक्ति, सा चोपयोगात्मिका, उपयोगश्च ‘अंतुमुहुत्ताउ परं जोगुवओगा न संती'ति वचनात् आन्तर्मुहूर्तिक एव, 'शब्दस्य' साम्प्रतादित्रिभेदस्य मतेनैकसमयं परीषहो भवति 'ज्ञातव्यः' अवबोद्धव्यः, स ह्युक्तनीतितो वेदनोपयुक्तमात्मानमेव परीषहं मनुते, स चैतस्य पर्यायात्मकतया प्रतिसमयमन्यान्य एव भवतीति समयमेवैतन्मतेन परीषहो युक्त इति गाथार्थः । 'वर्षाग्रतः त्रयाणां परीषह' इति यदुक्तं, तदेव दृष्टान्तेन दृढयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org