________________
७०
उत्तराध्ययन-मूलसूत्रम्-१-२/४८ तद्विपरीतं तु अजीवद्रव्यं दण्डादीत्यकारणं, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्यापि गणसंहतिरूपस्य द्रव्यस्यष्टत्वात, तदुक्तम्-"पर्यायनयोऽपि द्रव्यमिच्छति गुणसन्तानरूप"मिति गाथार्थः । सम्प्रति समवतारद्वारमाहनि.[७२] समोयारो खलु दुविहो पयडिपुरिसेसु चेव नायव्वो।
एएसि नाणत्तं वुच्छामि अहानुपुव्वीए । वृ. 'समवतारः खलु द्विविधः' इति खलुशब्दस्यैवकारार्थत्वात् द्विविध एव, द्वैविध्यं च विषयभेदत इति तमाह-प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः ?-प्रकृतिषु ज्ञानावरणादिरूपासु पुरुषेषु, चशब्दात् स्त्रीपण्डकेषुच, तत्तद्गुणस्थानविशेषवर्तिषु 'एवेति पूरणे, 'ज्ञातव्यः' अवबोद्धव्यः, एतेषां' प्रकृत्यादीनां नानात्वं' भेदं वक्ष्ये 'अथ' अनन्तरम् 'आनुपूर्व्या' क्रमेणेति गाथार्थः ।। तत्र प्रकृतिनानात्वमाहनि.[७३] नाणावरणे वेए मोहमिय अंतराइए चेव।
एएसुंबावीसं परीसहा हुंति नायव्वा ।। वृ.ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चर्तुषु कर्मसु वक्ष्यमाणस्वरूपेषु द्वाविंशतिः परीषहा भवन्ति । अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाहनि.[७४] पन्नान्नाणपरिसहा नाणावरणंमि हुंति दुनेए।
इक्को य अंतराए अलाहपरीसहो होइ। वृ.प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकवैक्लव्याकरणतः परीषयमाणे परीषहौ, 'ज्ञानावरणे' कर्मणि भवतो 'द्वौ' एतौ, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च अन्तराये' अन्तरायकर्मण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थः।
मोहनीयं द्विधेति यत्र तद्भेदे वेदनीये च यत्परिषहावतारस्तमाहनि.[७५] अरई अचेल इत्थी निसीहिया जायणा य अक्कोसे।
सक्कारपुरकारे चरित्तमोहंमि सत्तेए ।। नि.[७६] अरईइ दुगुंछाए पुंवेय भयस्स चेव मानस्स।
कोहस्स य लोहस्स य उदएण परीसहा सत्त ।। नि.[७७] दंसणमोहे दंसणपरीसहो नियमसो भवे इक्को।
सेसा परीसहा खलु इक्कारस वेयणीज्जंमि॥ वृ. 'अरतिः' इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः, 'अचेल'त्ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, 'स्त्री नैषेधिकी याचना चाक्रोशः सत्कारपुरस्कारः' सप्तैते वक्ष्यमाणरूपा: परीषहाः, 'चरित्रमोहे' चरित्रमोहनाम्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्यादेषां। चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेदस्योदयेन यत्परीषहसद्भावस्तमाह-'अरते:' अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, पुंवेय'त्ति सुपोलोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त, इह चारत्युदयेनारतिपरीषहः जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रमं योजना कार्येति, तथा दर्शनमोहे 'दर्शनपरीषहः' वक्ष्यमाणरूपो, 'नियमसो'त्ति आर्षत्वेन नियमात् भवेद् ‘एकः' अद्वितीयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org