________________
अध्ययनं-२,[नि. ७०] प्रति नैगमेन तुल्यमतत्वात्, 'त्रयाणां' त्रिसङ्घयानां, केषाम्?-शब्दप्रधाना नयाः शब्दनयाः, शाकपाथिवादिवत् समासः, तेषां-शब्दसमभिरूद्वैवम्भूतानां, मतेनेति शेषः, परीषहः 'संयते' विरते भवति 'मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहा" इति लक्षणोपेतनिरुपचरितपरीषहशब्दवृत्तेस्तत्रैव सम्भवादिति गाथार्थः ।। द्रव्यद्वारमधिकृत्य नयमतमाहनि.[७१] पढमंमि अट्ठ भंगा संगहि जीवो व अहव नोजीवो।
ववहारे नोजीवो जीवदव्वं तु सेसाणं ॥ वृ.'प्रथमे' प्रक्रमानैगमनये अष्टौ भङ्गाः, सहि 'णे'गेहिं मानेहिं मिणइत्ती नेगमस्स नेरुत्ती" इतिलक्षणादनेकधा कारणमिच्छन् यदैकेन पुरुषादिना चपेगुदिना परीषह उदीर्यते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य तदविवक्षया जीवेनासौ परीषह उदीरित इति वक्ति १, यदा बहुभिस्तदा जीवैः २, यदा अचेतनेनैकेन दृषदादिना जीवप्रयोगरहितेन तदाऽजीवेन ३, यदा तैरेव बहुभिस्तदा अजीवैः ४, यदैकेन लुब्धकादिना बाणादिनैकेन तदा जीवेनाजीवेन च ५, यदा तेनैकेनैव बहुभिः वाणादिभिस्तदा जीवेनाजीवैश्च ६, यदा बहुभिः पुरुषादिभिरेकं शिलादिकमुत्क्षिप्य क्षिपद्भिस्तदा जीवैरजीवने च ७, यदा तु तैरेव मुद्गरादीन् बहून् मुञ्चद्भिस्तदा जीवैश्चाजीवैश्चेति ८ 'संग्रहे' संग्रहनाम्नि नये विचार्यमाणे जीवो 'वा' अथवा नोजीवो हेतुरिति प्रक्रमः, किमुक्तं भवति?
जीवद्रव्येणाजीवद्रव्येण वा परीषह उदीर्यते, सहि "संगहियपिंडियत्थं संगहवयणं समासतो वेंती"ति वचनात् सामान्यग्राहित्वैनैकत्वमेवेच्छति न पुनर्द्वित्वबहुत्वे, अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्वं गृह्णाति तदा जीवद्रव्येण, यदा त्वचिद्रूपतया तदा अजीवद्रव्येण, 'व्यवहारे' व्यवहारनये 'नोजीव' इति अजीवो हेतुः, कोऽर्थः?, अजीवद्रव्येण परीषह उदीर्यत इत्येकमेव भङ्गमयमिच्छति, तथाहि-'वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं" इति तल्लक्षणं, तत्र च 'विनिश्चितं'मित्येनकरूपत्वेऽपि वस्तुनः सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते, तद्ग्राहकोऽयम्, उक्तं च
"भमराइ पंचवण्णाई निच्छिए जम्मि वा जनवयस्स। अत्थे विनिच्छओ जो विनिच्छयत्थुत्ति सो गेज्झो॥१॥ बहुयरउत्ति व तं चिय गमेइ संतेऽवि सेसए मुयइ।
संववहारपरतया ववहारो लोगमिच्छंतो ॥२॥"त्ति, (ततोऽयमाशय:-) 'कालो सभाव नियई पुव्वकयं पुरिसकारणेगंता।
मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ।।" इत्यागमवचनतः सर्वस्यानेककारणत्वेऽपि कर्मकृतं लोकवैचित्र्यमिति प्रायः प्रसिद्धर्यत् कर्म कारयिष्यति तत्करिष्याम इत्युक्तेश्च कर्मैव कारणमित्याह, तच्चाचेतनत्वेनाजीव एवेति।
'जीवदव्वं'तुशब्दस्यैवकारार्थत्वात् जीवद्रव्यमेव 'शेषणाम्' ऋजुसूत्रशब्दसमभिरूद्वैवम्भूतानां पर्यायनयानां मतेन, हेतरिति गम्यते, अयमर्थ:-जीवद्रव्येण परीषह उदीर्यत इत्येष एवैषां भङ्गोऽभिमतः, ते हि पर्यायास्तिकत्वेन परीषह्यमाणमेव परीषहमिच्छन्ति, परीषहणं चोपयोगात्मकम्, उपयोगस्य च जीवस्वाभाव्यात् जीवद्रव्यमेव सन्निहितमव्यभिचारिच कारणं, For Private & Personal Use Only
www.jainelibrary.org
Jain Education International