________________
अध्ययनं -१, [ नि. ६४ ]
अध्ययन - २ परीषह विभक्तिः
वृ. ॥ श्रीजिनाय नमः । नमः सर्वविदे । व्याख्यातं विनयश्रुताख्यं प्रथम अध्ययनम्, इदानीं द्वितीयं व्याख्यायते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने विनयः सप्रपञ्चः पञ्चप्रकार: उक्तः, स च किं स्वस्थावस्थैरेव समाचरितव्य उत परीषहमहासैन्यसमरसमाकुलितमनोभिरपि ?, उभयावस्थैरपीति ब्रूमः । ननु तर्हि केऽमी परीषहाः ?, किंरूपा: ?, किञ्चालम्बनमुररीकृत्यैतेषु सत्स्वपि न विनयविलङ्घनमित्याशङ्कापोहाय परिषहास्तत्स्वरूपादि चाभिधेयमित्यनेन सम्बन्धेनायातस्यास्य महार्थस्य महापुरस्येव चतुरनुयोगद्वारस्वरूपमुपवर्णनीयं तत्र च नामनिष्पन्ननिक्षेपस्य परीषह इति नाम, अतस्तन्निक्षेपदर्शनायाह भगवान्निर्युक्तिकारःनासो परीसहाणं चउव्विहो दुव्विहो य (उ) दव्वंमि । आगमनोआगमतो नोआंगमओ य सो तिविहो ।
नि. [ ६५ ]
६७
वृ. नियतं निश्चितं वाऽऽसनं नामादिरचनात्मकं क्षेपणं न्यासो- निक्षेप इत्यर्थः, अयं च केषामित्याह-परीति-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्ज्जरार्थं साध्वादिभिः, सह्यन्त इति परीषहास्तेषां, चत्वारो विधा:-प्रकारा अस्येति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे इत्यनादृत्य द्रव्यपरीषहमाह - 'द्विविधो' द्विभेदः, तुः पूरणे, भवति 'द्रव्य' इति द्रव्यविषयः, प्रक्रमात्परिषहः, स च 'आगमनोआगमतो 'त्ति आगमतो नोआगमतश्च, तत्र आगतो ज्ञाता तत्र चानुपयुक्त इत्यागमस्वरूपमतिपरिचितमिति परिहृत्य नोआगमत आह'नोआगमतस्तु' नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः ' त्रिप्रकार इति गाथार्थः ॥ नि. [ ६६ ] जाणगसरीर भविए तव्वइरित्ते य से भवे दुविहे । कम्मे नोकम्मे या कम्मंमि य अनुदओ भणिओ ॥
वृ. 'जाणगसरीर'त्ति ज्ञायको ज्ञो वा तस्य शरीरं ज्ञायकशरीरं ज्ञशरीरं वा जीवरहितं सिद्धशिलातलगतं निषीधिकागतं वा अहो ! अमुना शरीरसमुच्छ्रयेणोपात्तेन परीषह इति पदं शिक्षितम्, अयं घृतघटोऽभूदितिवत्संभाव्यमानं, तथा 'भविय'त्ति शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र सम्बन्धात् भव्यशरीरं, तत्र भविष्यति - तेन तेनावस्थात्मना सत्तां प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीषह इति पदं न शिक्षते एष्यति तु शिक्षिष्यते तदयं घृतघटो भविष्यतीतिवत्संभाव्यमानं नोआगमतो द्रव्यपरीषहः, 'तव्वतिरित्ते य'त्ति ताभ्यांज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्तः - पृथग्भूतः तद्व्यतिरिक्तः, स च प्रकृतत्वाद् द्रव्यपरीषहो भवेत्, 'द्विविधः ' द्विभेदः, कथमित्याह- क्रियते मिथ्यात्वाविरतिकषाययोगानुगतेनात्मना निर्वर्त्यत इति कर्म तत्र - ज्ञानावरणादिरूपे, 'नोकर्मणि च ' तद्विपरितरूपे, चः समुच्चये, दीर्घत्वं च 'ह्रस्वदीर्घौ मिथ' इति प्राकृतलक्षणात्, तत्राद्यमाह- कर्मणि विचार्ये, चः पूरणे, द्रव्यपरीषहः 'अनुदयः' उदयाभाव:, प्रक्रमात् परीषहवेदनीयकर्मणामेव, 'भणित: ' उक्त इति गाथार्थः ॥ नि. [ ६७ ] कम्मंमि यतिविहो सच्चित्ताचित्तमीसओ चेव । भावे कम्मस्सुदओ तस्स उ दारानिमे हुंति ॥
वृ. नोकर्मणि पुनर्विचार्यै: चस्य पुनरर्थत्वाद्रव्यपरीषहः 'त्रिविधः ' त्रिभेदः, 'सचित्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org